याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 450, कुल 782 में से
संदर्भ में पढ़ें३६४ याज्ञवल्क्यस्मृतिः तथा । नग्नं दहेन्नैव किंचिद्देयं परित्यजेत् ॥' इति; किंचिद्देयमिति शववस्त्रैक- देशं श्मशानवास्यर्थं देयं परित्यजेदित्यर्थः ॥ तथा प्रेतनिर्हरणेऽपि मनुना विशेषो दर्शितः (५।१०४) - 'न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् । अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसंपर्कदूषिता ॥' अत्र च स्वेषु तिष्ठत्सु इत्यविवक्षितम् । अस्वर्ग्यत्वादिदोषश्रवणात् ॥ - 'दक्षिणेन मृतं शूद्रं परद्वारेण निर्हरेत् । पश्चिमो- त्तरपूर्वैस्तु यथासंख्यं द्विजातयः ॥' तथा हारीतोऽपि- 'न ग्रामाभिमुखं प्रेतं हरेयुः' इति ॥ यदा तु प्रोषितमरणे शरीरं न लभ्यते तदास्थिभिः प्रतिकृतिं कृत्वा तेषामप्यलाभे पर्णशरैः शौनकादिगृहोक्तमार्गेण प्रतिकृतिं कृत्वा संस्कारः कार्यः । आशौचं चात्र दशाहादिकमेव । 'आहिताग्निश्चेत्प्रवसन्म्रियेत पुनः संस्कारं कृत्वा शववदाशौचम्' (४।३७) इति वसिष्ठस्मरणात् । अनाहिताग्निस्तु त्रिरात्रम् ; 'सुपिष्टैर्जलसंमिश्रैर्दग्धव्यश्च तथाग्निना । असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा स बान्धवैः ॥ एवं पर्णशरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ॥' इति वचनात् ॥ ततश्चा- यमर्थः- 'नामकरणादर्वाङ्निखननमेव, न चोदकदानादि । तत ऊर्ध्वं यावत्त्रिवर्षं वैकल्पिकमग्न्युदकदानम् । ततः परं यावदुपयनं तूष्णीमेवाग्न्युदकदानं निय- तम् । वर्षत्रयात्प्रागपि कृतचूडस्य । उपनयनादूर्ध्वं पुनराहिताग्न्यावृता दाहं कृत्वा सर्वमौर्ध्वदेहिकं कार्यम् । अयं तु विशेषः- उपनीतस्य लौकिकाग्निना दाहः कार्यः । अनाहिताग्नेर्गृह्याग्निना दाहो यथासंभवं पात्रयोजनं च कार्यम् ॥१-२॥ भाषा-दो वर्ष से कम आयु वाले बालक के मरने पर उसे भूमि में गाड़ देना चाहिए और उसके लिए उदकदान (प्रेत को उद्दिष्ट कर दी जाने वाली उदकांजलि) नहीं करना चाहिए। उससे अधिक आयु वाले के मरने पर जाति वालों (सपिण्डों) के साथ श्मशान तक (शव के पीछे-पीछे) जावें। यमसूक्त और गाथा का पाठ करते हुए (यदि मृत व्यक्ति अग्निहोत्री न रहा हो तो) लौकिक अग्नि से उसका दाह करे; यदि उसका यज्ञोपवीत हुआ हो तो अपने गृह्य में बताई गई लौकिक अग्नि से प्रयोजन के अनुसार दाह करे ॥ १-२ ॥ संस्कारानन्तरं किं कर्तव्यमित्यत आह- सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः । अप नः शोशुचदघमनेन पितृदिङ्मुखाः ॥ ३ ॥ सप्तमाद्दिवसादर्वाग्दशमदिवसाद्वा ज्ञातयः समानगोत्राः सपिण्डाः समा- नोदकाश्च 'अप नः शोशुचदघम्' (ऋ. सं. १।७।५) इत्यनेन मन्त्रेण दक्षिणा- मुखाः अपः अभ्युपयन्ति । अभ्युपगमनेन तत्प्रयोजनभूतोदकदानविशिष्टमभ्युप- गमनं लक्ष्यते; 'एवं मातामहाचार्य-' (प्रा० ४) इत्यनन्तरमुदकदानस्यातिदेश-