याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 453, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ३६७ नरशिरःकपालादिश्रुतिबाह्यलिङ्गधारणं पाखण्डम्, तद्विद्यते येषां ते पाखण्डिनः; अनाश्रिताः अधिकारे सत्यप्यकृताश्रमविशेषपरिग्रहाः । स्तेनाः सुवर्णाद्युत्तमद्रव्यहारिणः, भर्तृघ्न्यः प्रतिघातिन्यः, कामगाः कुलटाः, 'आदि'ग्रहणात् स्वगर्भब्राह्मणघातिन्यो गृह्यन्ते । सुराप्यो यासां या सुरा प्रतिषिद्धा तत्पानरताः । आत्मत्यागिन्यः विषाम्युदकोद्वन्धनाद्यैरात्मानं यास्त्यजन्ति । एते पाखण्ड्यादयः 'त्रिरात्रं दशरात्रं वा' ( प्रा० १८ ) वक्ष्यमाणस्याशौचस्योदकदानाद्यौर्ध्वदै- हिकस्य च भाजना न भवन्ति । भाजयन्तीति भाजनाः; सपिण्डादीनामाशी- चादिनिमित्तभूता न भवन्ति; अतस्तन्मरणे सपिण्डैरुदकदानादि न कार्यमित्ये- तत्प्रतिपादनपरं वचनम् । अत्र 'सुराप्य' इत्यादिषु लिङ्गमविवक्षितम् १।-'लिङ्गं च वचनं देशः कालोऽयं कर्मणः फलम् । मीमांसाकुशलाः प्राहुरनुपादेय- पञ्चकम् ॥' इत्यनुपादेयगतत्वात् । एतच्च बुद्धिपूर्वविषयम् ; यथाह गौतमः ( १४।१२ )—'प्रायोऽनाशकशस्त्राग्निविषोदकोद्वन्धनप्रपतनैश्चेच्छताम्' इति । प्रायो महाप्रस्थानम् , अनाशकमनशनम् , गिरिशिखरादवपातः प्रपतनम् । अत्र चेच्छतामिति विशेषणोपादानात्प्रमादकृते दोषो नास्तीत्यवगन्तव्यम् ; 'अथ कश्चित्प्रमादेन म्रियेताग्न्युदकादिभिः । तस्याशौचं विधातव्यं कर्तव्या चोदक- क्रिया' इति अङ्गिरःस्मरणात् ॥ तथा मृत्युविशेषादपि आशौचादिनिषेधः— 'चाण्डालादुदकात्सर्पाद् ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मि- णाम् ॥ उदकं पिण्डदानं च प्रेतेभ्यो यत्प्रदीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विन- श्यति ॥' इति । एतदपीच्छापूर्वमात्महननविषयम् । गौतमवचनेनेच्छापूर्वकमेवो- दकेन हतस्याशौचादिनिषेधस्योक्तत्वात् । अत्रापि 'चाण्डालादुदकात्सर्पात्' इति तत्साहचर्यदर्शनाद् बुद्धिपूर्वविषयत्वनिश्चयः । अतो दर्पादिना चाण्डालादीन्हन्तुं गतो यस्तैर्मारितस्तस्यायं 'सर्वत एवात्मानं गोपायेत्' इति विध्यतिक्रमानिमित्तः पिण्डदानादिनिषेधः । एवं दुष्टदंष्ट्रायुक्तव्यादिग्रहणार्थनाभिमुख्येन दर्पाद्गच्छतो मरणेऽप्ययं निषेध इत्यनुसंधेयम् । अयं चाशौचप्रतिषेधो दशाहादिकाला- वच्छिन्नस्य; 'हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम्' ( प्रा० २१ ) इति सद्यःशौचस्य वक्ष्यमाणत्वात् । तथा दाहादिकमप्येषां न कार्यम् ; 'नाशौचं नोदकं नाश्रु न दाहान्यत्कर्म च । ब्रह्मदण्डहतानां च न कुर्यात्कटधा- रणम् ॥' इति यमस्मरणात् । ब्रह्मदण्डहता ब्राह्मणदण्डहताः । प्रेतवहनसाधने खट्वादि 'कट'शब्देनोच्यते । न चाहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्येतत् श्रुतिविहिताग्नियज्ञपात्रादिप्रतिपत्तिलोपप्रसङ्गात् । अयं स्मार्तो दाहादिनिषेधो विप्रादिहिताहिताग्निविषयं नास्कन्दतीत्याशङ्कनीयम् । यतश्चण्डालादिह- १. विवक्षितम् । एतच्च बुद्धिपूर्वविषयम् ।