याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 490, कुल 782 में से
संदर्भ में पढ़ेंइति पाठे तु सिद्धमन्नमकृतान्नेन तण्डुलादिना परिवर्तनीयमिति ॥ ३९ ॥ भाषा—किन्तु धर्मार्थ ( औषधादिकार्यार्थ ) तिल के बराबर धान्य लेकर तिल बेचना उचित है ॥ ३९ ॥ पूर्वोक्तनिषिद्धातिक्रमे दोषमाह— लाक्षालवणमांसानि पतनीयानि विक्रये । पयो दधि च मद्यं च हीनवर्णकराणि तु ॥ ४० ॥ लाक्षालवणमांसानि विक्रीयमाणानि सद्यःपतनीयानि द्विजातिकर्म- हानिकराणि । पयःप्रभृतीनि तु हीनवर्णकराणि शूद्रतुल्यत्वापादकानि । एतद्व्यतिरिक्तपण्यविक्रये वैश्यतुल्यता । यथाह मनुः (१०।९२-९३)— ‘सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीर- विक्रयात् ॥ इतरेषामपण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं चं गच्छति ॥’ इति ॥ ४० ॥ भाषा—लाक्षा ( लाख ), नमक और मांस बेचने पर पतित हो जाता है और दूध, दही तथा सुरा बेचने पर वह निम्नवर्ण का हो जाता है (अर्थात् शूद्र के समान बन जाता है) ॥ ४० ॥ आपद्गतः संप्रगृह्णन्भुञ्जानो वा यतस्ततः । न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ ४१ ॥ किंच, यस्त्वधनोऽवसन्नकुटुम्बतया आपद्गतोऽपि क्षत्रवृत्तिं वैश्यवृत्तिं वा न प्रविशति स यतस्ततो ३हीनहीनतरहीनतमेभ्यः प्रतिगृह्णंस्तदन्नं भुञ्जानोऽपि वाँ एनसा पापेन न लिप्यते । यतस्तस्यामापद्वस्थायामसं- प्रतिग्रहादावधिकारित्वेन ज्वलनार्कसमः, यथा ज्वलनोऽर्कश्च हीनसंकरेऽपि न दुष्यति 'तथाऽयमापद्गतोऽपि न दुष्यतीत्येतावता तत्साम्यम् । एवं च वदता आपद्गतस्य परधर्माश्रयणाद् द्विगुणमपि स्वधर्मानुष्ठानमेव मुख्यमिति दर्शितं भवति । तथा च मनुः (१०।९७)--'वरं स्वधर्मो विगुणो न पारक्यः स्व- नुष्ठितः । परधर्माश्रयाद्विप्रः सद्यः पतति जातितः ॥' इति ॥ ४१ ॥ भाषा—आपत्काल में जिस किसी का दान एवं अन्न ग्रहण करने वाले ब्राह्मण को पाप नहीं लगता, क्यों कि वह अग्नि और सूर्य के समान होता है ॥ ४१ ॥ कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः । सेवाँनूपं नृपो भैक्षमपत्तौ जीवनानि तु ॥ ४२ ॥ १. निगच्छति । २. भुञ्जानोऽपि यत । ३. हीनतरस्ततो । ४. वा नैवैनसा । ५. सेवाऽनूपो । ६. भैक्ष्यमापत्तौ ।