भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 492, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 492

४३६ याज्ञवल्क्यस्मृतिः यो¹ऽशनायापरीतोऽवसीदति तस्य वृत्तमाचारं, कुलमाभिजात्यं, शीलमा- र्शवगुणं, श्रुतं शास्त्रश्रवणं, अध्ययनं वेदाध्ययनं, तपः कृच्छ्रादि च परीक्ष्य राजा धर्मादनपेतां वृत्तिं प्रकल्पयेत्, अन्यथा तस्य² दोषः, तथा च मनुः (७।१३४)-'यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधिपीडितम् ॥' इति ॥ ४४ ॥ भाषा-उसके आचार, कुल, शील, शास्त्रज्ञान, वेदाध्ययन, तप और कुटुम्ब का ज्ञान प्राप्त करके राजा उसके लिए धर्मसम्मत वृत्ति निर्धारित करे ॥ ४४ ॥ इत्यापद्धर्मप्रकरणम् । अथ वानप्रस्थधर्मप्रकरणम् ३ चतुर्णामश्रमिणां मध्ये ब्रह्मचारिगृहस्थयोर्धर्माः प्रतिपादिताः। सांप्रतमवस- रप्राप्तान्वानप्रस्थधर्मान्प्रतिपादयितुमाह- सुतविन्यस्तपत्नीकस्तया वाऽनुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ ४५ ॥ वने प्रकर्षेण नियमेन च तिष्ठति चरतीति वनप्रस्थः, वनप्रस्थ एव वान- प्रस्थः । संज्ञायां दीर्घत्वम् । आश्विनीं वृत्तिमाश्रित्य वनं प्रतिष्ठासुरिति यावत् । असौ सुतविन्यस्तपत्नीकः 'त्वयेयं वरणीया' इत्येवं सुते विन्यस्ता निक्षिप्ता पत्नी येन स तथोक्तः । यदि सा पतिपरिचर्याभिलाषेण स्वयमपि वनं जिगमि- षति तदा तयाऽनुगतो वा सहितः । तथा ब्रह्मचारी ऊर्ध्वरेताः साग्निर्वैतानाग्नि- सहितः तथा सोपासनो गृह्याग्निसहितश्च वनं व्रजेत् । 'सुतविन्यस्तपत्नीकं' इति वदता कृतगार्हस्थ्यो वनवासे³ऽधिक्रियत इति दर्शितम् । एतच्चाश्रम- समुच्चयपक्षमङ्गीकृत्योक्तम् । इतरथा 'अविप्लुतब्रह्मचर्यो यमिच्छेत्तु तमावसेत्' इत्यकृतगार्हस्थ्योऽपि वनवासेऽधिक्रियत एव । अयं च वनप्रवेशो जराजर्जरक- लेवरस्य जातपौत्रस्य वा । यथाऽह मनुः (६।२)-'गृहस्थस्तु यदा पश्ये- द्वलीपलितमात्मनः । अपत्यस्यैव वाऽपत्यं तदारण्यं समाश्रयेत् ॥' इति । अयं च पुत्रेषु पत्नीनिक्षेपो विद्यमानभार्यस्य । मृतभार्यस्याप्यापस्तम्बादिभिः वनवासस्मरणात् । अतो यत् ( आ० ८९) 'दाहयित्वाग्निहोत्रेण' इति पुन- राधानविधानं,-तदपरिपक्वकषायविषयम् । 'साग्निः सोपासन' इत्यत्रापि यदार्धाधानं कृतं तदा श्रौताग्निभिर्गृह्येण च सहितो वनं व्रजेत् । सर्वाधाने तु १. भोजनया। २. राज्ञो दोषः । ३. वानप्रस्थो वनवासे ।