भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 494, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 494

४३८ याज्ञवल्क्यस्मृतिः इति । एवं पञ्चमहायज्ञान्कृत्वा स्वयमपि तच्छेषमेव भुञ्जीत । (६।१२) - 'देवताभ्यश्च तद्धुत्वा वन्यं मेध्यतरं हविः । शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ॥' इति मनुस्मरणात् । स्वयं कृतमूपरलवणम् । एवं भोजनार्थे यागा- र्थं च मुन्यन्ननियमाद् ग्राम्याहारपरित्यागोऽर्थसिद्धः । अत एव मनुः (६।३) - 'संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम्' इति । ननु च दर्शपूर्णमासादेर्ब्रीह्या- दिग्राम्यद्रव्यसाध्यत्वात्कथं तत्परित्यागः ? नच वचनीयम् 'अफालकृष्टेनाग्नींश्च' (वसि० ९।३) इति विशेषवचनसामर्थ्याद् ब्रीह्यादिबाध इति । विशेषविषयी- ण्यापि स्मृत्या श्रुतिबाधस्यान्याय्यत्वात्, अफालकृष्टविधेश्च स्मार्ताग्निसाम्यकर्म- विषयत्वेनाप्युपपत्तेः । सत्यमेवम् , किन्त्वत्र ब्रीह्यादेरप्यफालकृष्टत्वसंभवान्न विरोधः । अत एवोक्तं मनुना ( ६।११ ) - 'वासन्तशारदैर्मेध्यैर्मुन्न्यन्नैः स्वयमा- हृतैः । पुरोडाशांश्चरुंश्चैव विधिवन्निर्वपेत्पृथक् ॥' इति ॥ नीवारादीनां मुन्यन्नानां स्वयमुत्पन्नानां स्वतो मेध्यत्वे सिद्धेऽपि पुनः 'मेध्य'ग्रहणं यज्ञार्हव्रीह्यादिप्राप्त्यर्थं कृतम् । मेधो यज्ञस्तदर्हं मेध्यमिति । तथा श्मश्रूणि मुखजानि रोमाणि जटारू- पांश्च शिरोरुहान्कक्षादीनि च रोमाणि बिभृयात् । 'रोम'ग्रहणं नखाना मप्युपलक्ष- णम् । तथा च मनुः (६।६) - 'जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखांस्तथा' इति । तथारमवानात्मोपासनाभिरतः स्यात् ॥ ४६ ॥ भाषा-बिना जुती हुई भूमि पर स्वयं उत्पन्न (नीवार, वेणु, श्यामाक आदि ) अन्न से अग्नियों, पितरों, देवों, अतिथियों एवं सेवकों को तृप्त करे (पञ्च महायज्ञ करे ), दाढ़ी-मूँछ, जटा और शरीर के रोम बढ़ाये रखे तथा आत्मवान् (उपासना में रत ) रहे ॥ ४६ ॥ पूर्वोक्तद्रव्यसंचयनियममाह- अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा । अर्थस्य संचयं कुर्यात्कृतमाश्वयुजे त्यजेत् ॥ ४७ ॥ एकस्याह्नः संबन्धि भोजनयजनादिष्टदृष्टकर्मणः पर्याप्तस्यार्थस्य संचयं कुर्यात् । मासस्य वा षण्णां मासानां वा संवत्सरस्य वा संबन्धि कर्मपर्याप्तं संचयं कुर्यात् ; नाधिकम् । यद्येवं क्रियमाणमपि कथंचिदतिरिच्यते तर्हि तदतिरिक्तमाश्वयुजे मासि त्यजेत् ॥ ४७ ॥ भाषा-एक दिन, एक मास, छः मास या वर्षभर के लिये धन का संचय करे और जो कुछ शेष बच जाय उसका आश्विन महीने में त्याग कर डाले ॥ ४७ ॥ १. अकालकृष्टेन । २. अर्थाय ।