याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 508, कुल 782 में से
संदर्भ में पढ़ें४५२. याज्ञवल्क्यस्मृतिः इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः । धारणा प्रेरणं दुःखमिच्छाहंकार एव च ॥ ७३ ॥ प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ । तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः ॥ ७४ ॥ किंच, इन्द्रियाणि ज्ञानकर्मेन्द्रियाणि वक्ष्यमाणानि, मनश्चोभयसाधारणम् , प्राणोऽपानो व्यान उदानः समान इत्येवं पञ्चवृत्तिभेदभिन्नः शारीरो वायुः प्राणः, ज्ञानमवगमः, आयुः कालविशेषावच्छिन्नं जीवनम् , सुखं निर्वृतिः, धृतिश्चि- त्तस्थैर्यम्, धारणा प्रज्ञा मेधा च, प्रेरणं ज्ञानकर्मेन्द्रियाणामधिष्ठातृत्वम् , दुःखमुद्वेगः, इच्छा स्पृहा, अहंकारोऽहंकृतिः, प्रयत्न उद्यमः, आकृतिराकारः, वर्णो गौरिमादिः, स्वरः षड्जगान्धारादिः, द्वेषो वैरम् , भवः पुत्रपश्वादिविभवः, अभवस्तद्विपर्ययः, तस्यानादेरात्मनो नित्यस्यादिमिच्छतः शरीरं जिघृक्षमाणस्य सर्वमेतदिन्द्रियादिकमात्मजनितं प्राग्भवीय कर्मबीजजन्यमित्यर्थः ॥ ७३-७४ ॥ भाषा—इन्द्रियाँ, मन, प्राणादि वायु, ज्ञान, आयु, सुख, धैर्य, धारणा ( प्रज्ञा, मेधा ), प्रेरण ( ज्ञानेन्द्रियों और कर्मेन्द्रियों का अधिष्ठातृत्व ) दुःख, इच्छा, अहंकार, प्रयत्न, आकार, वर्ण, स्वर, द्वेष, भव ( पुत्र, पशु आदि की सम्पत्ति ), अभव ( निर्धनता ) ये सब उस अनादि आत्मा के शरीर धारण की इच्छा करने पर प्राप्त होते हैं ॥ ७३-७४ ॥ संयुक्तशुक्रशोणितस्य कार्यरूपपरिणतौ क्रममाह— प्रथमे मासि संक्लेदभूतो धातुविमूर्च्छितः । मास्यर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः ॥ ७५ ॥ असौ चेतनः षष्ठो धातुविमूर्च्छितो धातुषु पृथिव्यादिषु विमूर्च्छितो लोली- भूतः । क्षीरनीरवदेकीभूत इति यावत् । प्रथमे गर्भमासे संक्लेदभूतो द्रवरूपतां प्राप्त एवावतिष्ठते न कठिनतया परिणमते । द्वितीये मास्यर्बुदमीषत्कठिनमां- सपिण्डरूपं भवति । अयमभिप्रायः-१कोष्ठ्यपवनजठरदहनाभ्यां प्रतिदिनमीष- दीषच्छोष्यमाणं शुक्रसंपर्क२संपादितद्रवीभावं भूतजातं त्रिंशद्भिर्दिनैः काठिन्य- मापद्यत इति । तथा च सुश्रुते (शा.३।१४)-'द्वितीये शीतोष्णानिलैरभिप- च्यमानो भूतसंघातो घनो जायते' इति । तृतीये तु मास्यङ्गैरिन्द्रियैश्च संयुक्तो भवति ॥ ७५ ॥ भाषा—यह ( संयुक्त वीर्य और रज अथवा पंचभूतों में षष्ठ धातु के रूप में पड़ा हुआ आत्मा ) गर्भ के पहले मास में द्रव के रूप में रहता १. कोष्ठपवन । २. संपर्काद् द्रवीभूतं ।