याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 549, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४६३ मृगा हरिणादयः, श्वसूकरोष्ट्राः प्रसिद्धाः, तेषां योनिं ब्रह्महा स्वकर्मशेषेण प्राप्नोति । खरो रासभः, पुल्कसः प्रतिलोमनिषादेन शूद्रायां जातः वैदेहकेना- ऽम्बष्ठ्यां जातो वेनः, तेषां योनिं सुरापः प्राप्नोति । कृमयः सजातीयसंभोगनि- रपेक्षां मांसविष्ठागोमयादिजन्याः, ततः किंचित्स्थूलतराः पक्षास्थिरहिताः सजातीयसंभोगनिरपेक्षाः पिपीलिकादयः कीटाः, पतङ्गः शलभः, तेषां योनिं ब्राह्मणस्वर्णहारी प्राप्नुयात् । तृणं काशादि, गुल्मुलते प्रागुक्ते; तज्जातीयतां क्रमेण गुरुतल्पगः प्राप्नोति । एतच्चाकामकृतविषयम्, कामकारकृते त्वन्यास्वपि दुःखबहुलयोनिषु संसरन्ति; यथाह मनुः (१२।५५-५८)—'श्वसूकरखरो- ष्ट्राणां गोऽजाविमृगपक्षिणाम् । चाण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ॥ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥ लूताऽहिसरठानां च तिरश्चां चाम्बुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ लूता ऊर्णनाभः । सरठः कृकलासः ।—' तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुत- ल्पगः ॥' इति ॥ २०७-२०८ ॥ भाषा—ब्रह्महत्या करने वाला हरिण, कुत्ता, सूअर और ऊँट का जन्म पाता है, सुरा पीने वाला गधा, पुल्कस (निषाद द्वारा शूद्रा से उत्पन्न पुरुष) और वेण (वैदेहक द्वारा अम्बष्ठा से उत्पन्न) की योनि पाता है; इसमें सन्देह नहीं । (ब्राह्मण का) सोना चुराने वाला कृमि (मांस, विष्ठा आदि में उत्पन्न होने वाले कीड़े), कीट (चींटी आदि) और पतंगों की योनि प्राप्त करता है । गुरुपत्नी से व्यभिचार करने वाला क्रमशः तृण, गुल्म (छोटी लता) और लता का जन्म पाता है ॥ २०७-२०८ ॥ एवं च तिर्यक्त्वादुत्तीर्णानां मानुष्ये रोगादि लक्षणानि भवन्तीत्याह— ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः । हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ २०९ ॥ यो येन संवसेत्येषां स तल्लिङ्गोऽभिजायते । किं.च, एवं रौरवादिनरकेषु श्वसूकरखरादियोनिषु च दारुणं दुःखमनुभूया- नन्तरं दुरितशेषेण जननसमय एव क्षयरोगादिलक्षणयुक्ताः । प्रचुरेषु मानव- शरीरेषु संसरन्ति । तत्र ब्रह्महा क्षयरोगी राजयक्ष्मी भवेत् । निषिद्धसुरापी स्वभावतः कृष्णदशनः, ब्राह्मणहेम्नो हर्ता कुत्सितनखत्वम्, गुरुदारगामी दुश्चर्मत्वं कुष्ठिताम् । एतेषां ब्रह्महादीनां मध्ये येन पतितेन यः पुरुषः संवसति संवसति स तल्लिङ्गोऽभिजायते ॥ २०९३ ॥ १. योनीः । २. गोवाजिमृगपक्षिणाम्. ३. पुल्कसानां च ।