याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 555, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४६६ शूद्रो धर्मत्स्वकाच्च्युतः ॥' इत्येतानि विहिताकरणप्रत्यवायपराणि मनुवच- नानि कथं घटन्ते ? उच्यते,—यथा वान्तमश्नत उल्कया वा दह्यमानमुखस्य दुःखं तथास्यापि विहितमकुर्वतः पुरुषस्य पुरुषार्थासिद्धेरित्यकरणनिन्दनमनुष्ठान- प्ररोचनार्थमित्यविरोधः । यद्वा,—प्राग्भवीयनिविद्धाचरणात्तित्सविहितानुष्ठान- विरोधिरागालस्यादिजन्यवान्ताश्युल्कामुखप्रेतत्वाधिरूपमिति न क्वचिदभावस्य कारणतेति मन्तव्यम् ॥ ननु पुंश्चलीवानरखरदष्ट(श्वदष्ट)मिथ्याभिशस्तःदौ विहि- ताकरणादिनिमित्तानामन्यतमस्याप्यभावात्कथं प्रत्यवायिता ? कथं च तदभावे प्रायश्चित्तविधानम् ? उच्यते,—अस्मादेव पापक्षयार्थप्रायश्चित्तविधानाज्जन्मान्त- राचरितनिषिद्धसेवादिजन्यपापापूर्वं समाक्षिप्तमित्यभिशापादिकं तन्निमित्तप्राय- श्चित्ताप नोद्यभनेनानुष्ठितमिति कल्प्यते; पुरुषप्रयत्नैरपेक्षयेण कार्यरूपपापोत्प- त्त्यनुपपत्तेः । नच पुंश्चल्यादिगतप्रयत्नेन पुरुषान्तरे पापोत्पत्तिः, कर्तृसमवायित्व- नियमाद्धर्माधर्मयोः, तस्माद्युक्तैव प्रायश्चित्ते निमित्तत्रयपरिगणना । तथा च मनुः (११।४४)—'अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश्चेन्द्रि- यार्थेषु प्रायश्चित्तीयते नरः ॥' इति । 'नर'ग्रहणं प्रतिलोमजातानामपि प्रायश्चि- त्ताधिकारप्राप्त्यर्थम्, तेषामप्यहिंसादिसाधारणधर्मव्यतिक्रमसंभवात्, यस्मादेवं निषिद्धाचरणादिना प्रत्यवैति तस्मात्तेन कृतनिषिद्धसेवादिना पुरुषेण प्राय- श्चित्तं कर्तव्यमिह लोके परत्र च विशुद्ध्यर्थम् । प्रायश्चित्तशब्दश्चायं पाप- क्षयार्थे नैमित्तिके कर्मविशेषे रूढः । एवं प्रायश्चित्ते कृते अस्यान्तरात्मा शुद्ध- तया प्रसीदति लोकश्च संव्यवहर्तुं प्रसीदति । एवं वदततद्दर्शितम्—नैमित्तिकोऽयं प्रायश्चित्ताधिकारः, तथा चार्थवादगतदुरितक्षयोऽपि जातेष्टिन्यायेन साध्यतया स्वीक्रियते । नच दुरितपरिजहीसानुष्ठीयत इत्येतावता कामाधिकारो³शङ्का कार्या । यस्मात् (मनुः ११।५३)—'चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥' इत्यकरणे दोषश्रवणेनावश्यकत्वा- वगमात् ॥ २१९-२२० ॥ भाषा—नित्य, नैमित्तिक आदि विहित कर्मों के न करने से तथा सुरा- पान आदि निषिद्ध कर्म करने से और इन्द्रियों का निग्रह न करने से मनुष्य पतित हो जाता है । इस लिये मनुष्य की शुद्धि के लिये प्रायश्चित्त करना चाहिए और इस प्रकार उसकी अन्तरात्मा और लोक सभी प्रसन्न होते हैं ॥ प्रायश्चित्ताकरणे दोषमाह— प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । ⁴अपश्चात्तापिनः कष्टान्नरकान्यान्ति दारुणान् ॥ २२१ ॥ १. प्रायश्चित्तनिमित्त । २. लोकश्चायं संव्यव । ३. धिकारशङ्का । ४. अपश्चात्तापिनो यान्ति नरकानतिदारुणान् । ३२ या०