भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 557, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 557

प्रायश्चित्ताध्यायः ५०१ पूर्वक्रियायामर्धं प्रायश्चित्तम् । तथा 'म्लेच्छेनाधिगतः१ शूद्रस्त्वज्ञानात्तु कथंचन । कृच्छ्रत्रयं प्रकुर्वीत ज्ञानात्तु२ द्विगुणं भवेत् ॥' इत्यादिभिर्वचनै३र्ज्ञानकामनयोस्तुल्य- प्रायश्चित्तदर्शनात्तुल्यफलतैव । किंच, स्वतन्त्रप्रवृत्तिर्विषयज्ञानकामनाभ्यां नियता; तयोरन्यतरापायेऽपि४ तस्या असंभवदतः 'कामत' इत्युक्तम् ; 'ज्ञाना- ज्ञानत' इत्युक्तेऽपि कामः प्राप्नोत्यविनाभावात् । नच चौरादिभिर्बलात्प्रवर्त्य- मानस्य सत्यपि विषयज्ञाने कामनाभावान्नाविनाभाव इति वाच्यम् । यतोऽत्र विद्यमानस्यापि५ ज्ञानस्य प्रवृत्तिहेतुत्वाभावेनासत्सत्त्वम् ॥ यत्तु-शुष्केऽपि विप- तिषोर्भ्रान्त्या कर्दमपतनं, तत्रापि वास्तवज्ञानाभावात्तद्विषयकामनायाश्चाभाव एव । एवमज्ञानाकामनयोरप्यव्यभिचार एव ॥ ननु 'प्रायश्चित्तैरपैत्येनः' इति न युक्तम् ; फलविनाश्यत्वात्कर्मणः । मैवम् ; यथा पापोत्पत्तिः शास्त्रगम्या तथा तत्परिक्षयोऽपीति नात्र प्रमाणान्तरं क्रमते । अतएव गौतमेन पूर्वोत्तरपक्षभङ्ग्या अयमर्थो दर्शितः । तन्न प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते । न कुर्यादित्या- हुर्न हि कर्म क्षीयते इति । कुर्यादित्यपरे । 'पुनःस्तोमेनेष्ट्वा पुनःसवनमा- यान्तीति विज्ञायते । व्रात्यस्तोमेनेष्ट्वा६ तरति सर्वं पाप्मानं तरति भ्रूणहत्यां योऽश्वमेधेन यजते' इति पुनःसवनमायान्ति इति सवनसंपाद्यज्योतिष्टोमादि- द्विजातिकर्मणि योग्यो भवतीत्यर्थः । न चेदमर्थवादमात्रम् ; अधिकारिविशेषणा- काङ्क्षायां रात्रिसत्रन्यायेनार्थवादिकफलस्यैव कल्पनाया न्याय्यत्वात्, अतो युक्तं 'प्रायश्चित्तरपैत्येनः' इति ॥ ननु कामकृते प्रायश्चित्ताभावात्कथं व्यवहार्यत्वं तद- भावश्च 'अनभिसंधिकृतेऽपराधे प्रायश्चित्तम्' इति ( २०।१ ) वसिष्ठवचनात् ॥ 'इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥' इति ( ११।८९ ) मनुवचनाच्चावगम्यते । नैतत् ; 'यः कामतो महापापं नरः कुर्यात्कथंचन । न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते ॥' इति । तथा—'विहितं यदकामानां कामात्तद्द्विगुणं भवेत्' इति च कामकृतेऽपि प्राय- श्चित्तदर्शनात् । यत्तु वसिष्ठवचनं 'तस्याप्यकामकृतेऽपराधे प्रायश्चित्तं शुद्धि- करम्' इत्यभिप्रायो न पुनः कामकृते प्रायश्चित्ताभाव इति ॥ यत्तु मनुवचनं-'इयं विशुद्धिरुदिता' इत्यादि, तदपीयमिति सर्वनामपरामृष्टद्वादशवार्षिकादिव्रत- चर्यया एव । 'कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते' इत्यनेन प्रतिषेधो न पुनः प्रायश्चित्तमात्रस्य; मरणान्तिकादेः प्रायश्चित्तस्य दर्शितत्वात् ॥ ननु यदि कामकृतेऽपि प्रायश्चित्तमस्ति तर्हि पापक्षयोऽपि कस्मान्न स्यादविशेषाद्यदि पाप- १. धिगता शूद्रा स्वज्ञानात्तु । २. ज्ञानात्तद्द्विगुणं, ज्ञाने तु द्विगुणं । ३. इत्याद्यपूर्ववचनैः । ४. अन्यतराभावेऽपि । ५. विद्यमानस्याप्रवृत्ति । ६. नेष्ट्वा ब्रह्मचर्यं चरेदुप नयनत इति सर्वं पाप्मानं ।