याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 564, कुल 782 में से
संदर्भ में पढ़ें५०८ याज्ञवल्क्यस्मृतिः पितृष्वस्रादयः प्रसिद्धाः, ता गच्छन् गुरुतल्पगः, तस्य लिङ्गं छित्त्वा राज्ञा वधः कर्तव्यो दण्डार्थं, प्रायश्चित्तं च तदेव । 'च' शब्दाद्राज्ञीप्रव्रजितादीनां ग्रहणम् । यथाह नारदः ( १२।७३-७५ ) - 'माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' इति । राज्ञी राज्यस्य कर्तुर्भार्या, न क्षत्रियस्यैव; तद्गमने प्रायश्चित्तान्तरोपदेशात् । धात्री मातृव्यतिरिक्ता स्तन्यदानादिना पोषयित्री, साध्वी व्रतचारिणी, वर्णोत्तमा ब्राह्मणी । अत्र 'मातृ'ग्रहणं दृष्टान्तार्थम् । अयं च लिङ्गच्छेदवधात्मको दण्डो ब्राह्मणव्यतिरिक्तस्य; 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम्' इति तस्य वधनिषेधात् वधस्यैव प्रायश्चित्तरूप- त्वात् । अस्य च विषयं गुरुतल्पप्रायश्चित्तप्रकरणे प्रपञ्चयिष्यामः । अत्र स्नुषाभगिन्योः पूर्वश्लोकेन गुरुतल्पसमीकृतयोः पुनर्ग्रहणं प्रायश्चित्तविकल्पार्थम् । यदा पुनरेताः स्त्रियः सकामाः सत्य एतानेव पुरुषान्वशीकृत्योपभुञ्जते तदा तासामपि पुरुषवद्वध एव दण्डः प्रायश्चित्तं च । एतानि गुर्वङ्गिच्छेपादितनयागम- पर्यन्तानि महापातकातिदेशविषयाणि सद्यः पतनहेतुत्वारपातकान्युच्यन्ते । यथाह यमः-'मातृष्वसा मातृसखी दुहिता च पितृष्वसा । मातुलानी स्वसा श्वश्रू- र्गत्वा सद्यः पतेन्नरः ॥' इति गौतमेन पुनरन्येषामपि पातकत्वमुक्तम् ( २१। १२ )-'मातृपितृयोनिसंबद्धाङ्गजस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यप- तितत्यागिनः पतिताः पातकसंयोजकाश्च' इति । तेषां च महापातकोपपातक- मध्यपाठClass-महापातकान्न्यूनत्वमुपपातकाच्च गुरुत्वमवगम्यते । तदुक्तम् - 'महा- पातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातकसंज्ञानि तन्न्यूनमुपपा- तकम् ॥' इति । तथा चाङ्गिराः - 'पातकेषु सहस्रं स्यान्महत्सु द्विगुणं तथा उपपापे तुरीयं स्यान्नरकं वर्षसंख्यया ॥' इति ॥ २३२-२३३ ॥ भाषा - पिता की बहन ( बुआ ), माता, मामी, स्नुषा ( पतोहू ), सौतेली माता, बहन, आचार्य की पुत्री, आचार्य की पत्नी, या अपनी पुत्री से संभोग करने वाला गुरुपत्नीभोगी के समान होता है; उसका लिङ्ग काटकर वध कर देना चाहिए; और यदि ये स्त्रियाँ स्वेच्छा से संभोग कराती हैं तो उनके लिए भी वध का दण्ड प्रायश्चित्त होता है ॥ २३२-२३३ ॥ एवं महापातकानि तत्समानि च पातकानि परिगणय्योपपातकानि परिग- णयितुमाह- गोवधो व्रात्यता स्तेयमृणानां चानपाक्रिया । १. दण्डार्थः । २. वर्मसंख्ययात् । ३. चानपक्रिया ।