भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 564, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 564

५०८ याज्ञवल्क्यस्मृतिः पितृष्वस्रादयः प्रसिद्धाः, ता गच्छन् गुरुतल्पगः, तस्य लिङ्गं छित्त्वा राज्ञा वधः कर्तव्यो दण्डार्थं, प्रायश्चित्तं च तदेव । 'च' शब्दाद्राज्ञीप्रव्रजितादीनां ग्रहणम् । यथाह नारदः ( १२।७३-७५ ) - 'माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' इति । राज्ञी राज्यस्य कर्तुर्भार्या, न क्षत्रियस्यैव; तद्गमने प्रायश्चित्तान्तरोपदेशात् । धात्री मातृव्यतिरिक्ता स्तन्यदानादिना पोषयित्री, साध्वी व्रतचारिणी, वर्णोत्तमा ब्राह्मणी । अत्र 'मातृ'ग्रहणं दृष्टान्तार्थम् । अयं च लिङ्गच्छेदवधात्मको दण्डो ब्राह्मणव्यतिरिक्तस्य; 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम्' इति तस्य वधनिषेधात् वधस्यैव प्रायश्चित्तरूप- त्वात् । अस्य च विषयं गुरुतल्पप्रायश्चित्तप्रकरणे प्रपञ्चयिष्यामः । अत्र स्नुषाभगिन्योः पूर्वश्लोकेन गुरुतल्पसमीकृतयोः पुनर्ग्रहणं प्रायश्चित्तविकल्पार्थम् । यदा पुनरेताः स्त्रियः सकामाः सत्य एतानेव पुरुषान्वशीकृत्योपभुञ्जते तदा तासामपि पुरुषवद्वध एव दण्डः प्रायश्चित्तं च । एतानि गुर्वङ्गिच्छेपादितनयागम- पर्यन्तानि महापातकातिदेशविषयाणि सद्यः पतनहेतुत्वारपातकान्युच्यन्ते । यथाह यमः-'मातृष्वसा मातृसखी दुहिता च पितृष्वसा । मातुलानी स्वसा श्वश्रू- र्गत्वा सद्यः पतेन्नरः ॥' इति गौतमेन पुनरन्येषामपि पातकत्वमुक्तम् ( २१। १२ )-'मातृपितृयोनिसंबद्धाङ्गजस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यप- तितत्यागिनः पतिताः पातकसंयोजकाश्च' इति । तेषां च महापातकोपपातक- मध्यपाठClass-महापातकान्न्यूनत्वमुपपातकाच्च गुरुत्वमवगम्यते । तदुक्तम् - 'महा- पातकतुल्यानि पापान्युक्तानि यानि तु । तानि पातकसंज्ञानि तन्न्यूनमुपपा- तकम् ॥' इति । तथा चाङ्गिराः - 'पातकेषु सहस्रं स्यान्महत्सु द्विगुणं तथा उपपापे तुरीयं स्यान्नरकं वर्षसंख्यया ॥' इति ॥ २३२-२३३ ॥ भाषा - पिता की बहन ( बुआ ), माता, मामी, स्नुषा ( पतोहू ), सौतेली माता, बहन, आचार्य की पुत्री, आचार्य की पत्नी, या अपनी पुत्री से संभोग करने वाला गुरुपत्नीभोगी के समान होता है; उसका लिङ्ग काटकर वध कर देना चाहिए; और यदि ये स्त्रियाँ स्वेच्छा से संभोग कराती हैं तो उनके लिए भी वध का दण्ड प्रायश्चित्त होता है ॥ २३२-२३३ ॥ एवं महापातकानि तत्समानि च पातकानि परिगणय्योपपातकानि परिग- णयितुमाह- गोवधो व्रात्यता स्तेयमृणानां चानपाक्रिया । १. दण्डार्थः । २. वर्मसंख्ययात् । ३. चानपक्रिया ।