याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 586, कुल 782 में से
संदर्भ में पढ़ें५३० याज्ञवल्क्यस्मृतिः गौतमवचनात्, तथा—'मद्यमूत्रपुरीषाणां भक्षणे नास्ति कश्चन । दोषस्त्वाऽऽपञ्च- माद्वर्षादूर्ध्वं पित्रोः सुहृद्गुरोः ॥' इति कुमारवचनाच्च दोषाभावावगतेः । उच्यते,—सुरामद्ययोर्निषेधवाक्ये जातिमात्रावच्छेदकत्वश्रवणादप्रतिहतैव नि- षेधप्रवृत्तिः । अत एव स्मृत्यन्तरे निषेधवचनम्—'सुरापाननिषेधस्तु जात्याश्रय इति स्थितिः' इति । अतः 'पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः' इति । 'सर्वपापेषु सुरापानादिष्वपि' इति वचनात्पाद एव सुरापाने प्रायश्चित्तम् । तथा जातूकर्ण्येन मद्यपानेऽपि प्रायश्चित्तमुक्तम्—'अनुपेतस्तु यो बालो मद्यं मोहा- त्पिबेद्यदि । तस्य कृच्छ्रत्रयं कुर्यान्माता भ्राता तथा पिता ॥' इति । अतो गौतमवचनं सुरादिव्यतिरिक्तशुक्तपर्युषितादिविषयम् । कुमारवचनं तु स्वल्प- दोषख्यापनपरम् । अत एव प्रागुपनयनात्कृतदोषस्योपनयनमेव प्रायश्चित्तमित्युक्तं मनुना ( २।२७ )—'गार्भैर्होमैर्जातकर्मचूडामौञ्जीनिबन्धनैः । बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥' इति । अयमत्रार्थः-त्रैवर्णिकानामुत्पत्तिप्रभृति पैष्टी- प्रतिषेधः । ब्राह्मणस्य मद्यमात्रनिषेधोऽप्युत्पत्तिप्रभृत्येव । राजन्यवैश्ययोस्तु न कदाचिदपि गौड्यादिमद्यप्रतिषेधः । शूद्रस्य न सुराप्रतिषेधो नापि मद्यप्रतिषेधः ॥ २५३ ॥ भाषा—सुरा पीने वाला महापातकी सुरा, जल, घृत, गोमूत्र और दूध में किसी एक को खूब खौलाकर पीए और उससे उसकी मृत्यु हो जाय तब वह शुद्ध होता है ॥ २५३ ॥ प्रायश्चित्तान्तरमाह— बालवासा जटी वाऽपि ब्रह्महत्याव्रतं चरेत् । पिण्याकं वा कणांश्चाऽपि भक्षयेत्त्रिसमा निशि ॥ २५४ ॥ गोश्वागादिलोमनिर्मितवस्त्राप्रावृतो बालवासाः, 'बालवासो'ग्रहणं चीरवल्क- लयोरुपलक्षणार्थम् ; 'सुरापगुरुतल्पगौ चीरवल्कलवाससौ ब्रह्महत्याव्रतं चरेया- ताम्' इति प्रचेतःस्मरणात् । 'जटी'ग्रहणं मुण्डित्वनिराकरणार्थम् । 'ब्रह्म- हत्याव्रतं चरेत्' इत्यनेनैव सिद्धे यद्बालवसनादिग्रहणं तदन्यत्र संभंवि स्वयं मारितशिरःकपालादिनिवृत्यर्थम् । इदमकामतो जलबुद्धया यः सुरां पिबति तद्विषयम् ; 'इयं विशुद्धिरुदिता प्रमाप्याऽकामतो द्विजम्' ( मनुः ११।८९ )— इत्यकामोपाधित्वेन विहितस्यैव द्वादशवार्षिकस्यातिदेशात् । अत्र च सुरा- पानस्य महापातकत्वादसत्यप्यातिदेशिकत्वे संपूर्णमेव द्वादशवार्षिकं कुर्यान्न पादो- नम् । अत एव वृद्धहारीतः—'द्वादशभिर्वर्षैर्महापातकिनः पूयन्ते' इति । १. चरेद् ब्रह्महणि व्रतम् । २. भक्षयेत्तु समां निशि । ३. संभवे श्रूय- माणस्वसंबन्धि स्वयम् ।