भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 605, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 605

प्रायश्चित्ताध्यायः ५४६ याजनाध्यापनयोनैकपात्रभोजनानां षण्मासात्पातित्यवचनमेतदकामतोऽत्यन्तापदि पञ्चमहायज्ञादिप्राये याजनेऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्ते च योनिसंबन्धे द्रष्टव्यम्; प्रकृष्टयाजनादिभिः सद्यःपातित्यस्योक्तत्वात् । एतद्दिगवलम्बनेनैव दुहि- तृभगिनीस्नुषागाम्यतिपातकिसंसर्गिणां कामतो नववार्षिकं, अकामतः सार्धचतुर्वा- र्षिकं कल्पनीयम् । सखिपतृव्यदारादिगामिपातकिसंसर्गिणां कामतः षड्वार्षिकम्, अकामतस्त्रैवार्षिकम् । अथोपपातक्यादिसंसर्गीणामपि कामतस्तदीयमेव त्रैमासि- कम्, अकामतोऽर्धमित्यूहनीयम् । पुरुषवत्स्त्रीणामपि महापातक्यादिसंसर्गात्पा- तित्यमविशिष्टम् । यथाह शौनकः—'पुरुषस्य यानि पतननिमित्तानि स्त्रीणामपि तान्येव ।' ब्राह्मणी हीनवर्णसेवायामधिकं पततीति; अतस्तासामपि महापात- किप्रभृतीनां मध्ये येन सह संसर्गस्तदीयमेव प्रायश्चित्तमर्धं क्लृप्त्यौ योजनीयम् । एवं बालवृद्धातुराणामपि कामतोऽर्धम्, अकामतः पादः । तथानुपनीतस्यापि बालस्य कामतः पादोऽकामतस्तदर्धमित्येषा दिक् ॥ पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य यौनसंबन्धस्य क्वचित्प्रतिप्रसवमाह— कन्यां समुद्वहेदेषां सोपवासामकिंचनाम् ॥ २६१ ॥ एषां पतितानां कन्यां पतितावस्थायामुत्पन्नां सोपवासां कृततत्संसर्गकालो- चितप्रायश्चित्तामकिंचनामगृहीतवस्त्राद्यलंकारादिपितृधनामुद्वहेत् । 'कन्यां समुद्व- हेत्'इति वदन्स्वयमेव कन्यां त्यक्तपतितसंसर्गां समुद्वहेन्न पुनः पतितहस्तात्प्रति- गृह्णीयादिति दर्शयति । एवं च सति पतितयोनिसंसर्गप्रतिषेधविरोधोऽपि परिहृतो भवति । अयं चार्थो बृहद्धारीतेन स्पष्टीकृत;—'पतितस्य तु कुमारीं विवक्षाम- होरात्रोषितां प्रातः शुक्लेनाहतेन वाससाच्छादितां नाहमेतेषां न ममैते इति त्रिरुच्चैरभिदधानां तीर्थे स्वगृहे वोद्वहेत्' इति । तथा 'एषां कन्यां समुद्वहेद्' इति वचनात्स्त्रीव्यतिरिक्ततदीयापत्यस्य संसर्गानर्हतां दर्शयति । अत एव वसिष्ठः —'पतितेनोत्पन्नः पतितो भवति अन्यत्र स्त्रियाः, सा हि परगामिनी तामरि- क्थामुपेयात्' इति ॥ २६१ ॥ भाषा—इन महापातकियों के साथ जो एक वर्ष तक निवास करता है वह भी इनके समान महापातकी हो जाता है । इन पातकियों की कन्या से उन्हें उपवास करा के पिता का ( वस्त्रादि ) कुछ भी न लेते हुए विवाह किया जा सकता है ॥ २६१ ॥ इति संसर्गप्रायश्चित्तप्रकरणम् । निषिद्धसंसर्ग प्रायश्चित्तप्रसङ्गान्नषिद्धसंसर्गोत्पन्नप्रतिलोमवधे प्रायश्चित्तमाह— चान्द्रायणं चरेत्सर्वानवकृष्टांन्निहत्य तु । अवकृष्टाः सूतमागधादयः प्रतिलोमोत्पन्नास्तेषां प्रत्येकं हनने चान्द्राय- णम् । तथा च शङ्खः—'सर्वेषामवकृष्टानां वधे प्रत्येकं चान्द्रायणम्' इति । यद्वा-