याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 612, कुल 782 में से
संदर्भ में पढ़ें५४६ याज्ञवल्क्यस्मृतिः च प्राजापत्यो यदि रोधादिकं कृत्वा तज्जन्यप्रमादपरिजिहीर्षया प्रत्यवेक्षमाण आस्ते तदा द्रष्टव्यः; 'अकामकृतपापस्य' इति विशेषणोपादानात् । यदा तु न प्रमादसंरक्षणं¹ करोति, तदा 'पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं स्याच्चरेत्सर्वं निपातने ॥' इत्यङ्गिरोदृष्टं त्रैमासिकपादं किंचिदधिकं वा ²विंशत्यहर्गोवधव्रतं कुर्यात् । आपस्तम्बेनापि विशेष उक्तः- '³अतिदोहाति- वाहाभ्यां नासिकाच्छेदने तथा । नदीपर्वतसंरोधे मृते पादोनमाचरेत् ॥' इति । लक्षणमात्रोपयोगिनि तु दाहे न दोषः; 'अन्यत्राङ्कनलक्ष्माभ्यां वाहने मोचने⁴ तथा । सायं संगोपनार्थं च न दुष्येद्रोधबन्धने ॥' इति पराशरस्मरणात् । अङ्कनं स्थिरचिह्नकरणम् , लक्षणं सांप्रतोपलक्षणम् । वाहने शास्त्रोक्तमार्गेण रक्षणार्थमपि नालिकेरादिभिर्बन्धने भवत्येव दोषः; 'न नालिकेरेण न शाणवा- लैर्न चापि मौञ्जेनं न बन्धशृङ्खलैः । एतैस्तु गावो न निबन्धनीया बद्ध्वा तु तिष्ठेत्परशुं गृहीत्वा ॥ कुशैः काशैश्च बध्नीयात्स्थाने दोषविवर्जिते ॥' इति व्यास- स्मरणात् । तथान्योऽपि विशेषस्तेनैवोक्तः- 'घण्टाभरणदोषेण विपत्तिर्यत्र गोर्भवेत् । कृच्छ्रार्धं⁶ तु भवेत्तत्र भूषणार्थं हि तत्स्मृतम् ॥ ⁷अतिदोहेऽतिदमने संघाते चैव योजने । बद्ध्वा शृङ्खलपाशैश्च मृते पादोनमाचरेत् ॥' इति । पालनाकरणा- दिनोपेक्षायां क्वचित्प्रायश्चित्तविशेषस्तेनैवोक्तः,-'जलौघपल्वले मग्ना मेघविद्यु- द्धतापि वा । श्वभ्रे वा पतिताऽकस्माद्व्याघ्रेनापि च हिंसिता ॥ प्राजापत्यं चरेत्कृच्छ्रं गोस्वामी व्रतमूत्तमम् । शीतवाताहता वा स्याद्दुष्टश्वनहताऽपि वा ॥ शून्यागार उपेक्षायां प्राजापत्यं विनिर्दिशेत् ॥' इति । इदं तु कार्यान्तरविरहेऽप्युपेक्षायां वेदितव्यम् । कार्यान्तरव्यग्रतयोपेक्षायां त्वर्धम्-'पल्वलोघमृगव्याघ्रश्वापदा- दिनिपातने । श्वभ्रप्रपातसर्पाद्यैर्मृते कृच्छ्रार्धमाचरेत् ॥ अपालत्वात्तु कृच्छ्रं स्याच्छून्यागार उपप्लवे ॥' इति विष्णुस्मरणात् । तथा सत्यपि व्यापादने क्वचि- दुपकारार्थप्रवृत्तौ वचनाद्दोषाभावः । यथाह संवर्तः- 'यन्त्रणे गोचिकित्सार्थे मूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यान्न स पापेन लिप्यते ॥' इति । यन्त्रणं ¹⁰व्याध्यादिनिर्यातनार्थं संदंशाङ्कुशादिप्रवेशनम् । तथा-'औषधं स्नेहमाहारं ददद्गोब्राह्मणे द्विजः । दीयमाने विपत्तिश्चेन्न स पापेन लिप्यते ॥ ग्रामघाते शरोघेण वेश्मभङ्गाग्निपातने । दाहच्छेदशिराभेदप्रयोगैरुपकुर्वताम् ॥ द्विजानां गोहितार्थं च प्रायश्चित्तं न विद्यते ॥' अत्र पराशरोऽप्याह-'ग्रामघाते शरोघेण वेश्मभङ्गाग्निपातने । अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥'
१. संरक्षणम् । २. द्वाविंशत्यहः । ३. अविदोहा । ४. मोचनेऽपि वा । ५. मौञ्जैर्न च शृङ्खलैश्च । ६. गोकृच्छ्रार्धं भवेत् । ७. अतिदोहातिदमने । ८. मृतापि वा । ९. गूढगर्भं । १०. व्याघ्रादि ।