याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 614, कुल 782 में से
संदर्भ में पढ़ें५५८ याज्ञवल्क्यस्मृतिः कृच्छ्र और अतिकृच्छ्र व्रत करे और तीन दिन-रात तक उपवास करके दस गायों और एक साँड का दान करे ॥ २६३-२६४ ॥ इति गोवधप्रायश्चित्तप्रकरणम् । अधुनाऽन्येषामुपपातकानां प्रायश्चित्तमाह- उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा । पयसा वापि मासेन पराकेणाथवा पुनः ॥ २६५ ॥ एवमुक्तेन गोवधव्रतेन मासं पञ्चगव्याशनादिनान्येशां व्रात्यतादीनामुपपात- कानां शुद्धिर्भवेत् । चान्द्रायणेन वा वक्ष्यमाणलक्षणेन मासं पयोव्रतेन वा पराकेण वा शुद्धिर्भवेत् । अत्रातिदेशसामर्थ्याद्द्रोचर्मवसनगोपरिचर्यादि- भिर्गोवधासाधारणैः कतिपयैर्न्यूनत्वमवगम्यते ।-एतच्च व्रतचतुष्टयमकामकारे शक्त्यपेक्षया विकल्पितं द्रष्टव्यम् ; कामकारे तु 'एतदेव व्रतं कुर्यु रुपपातकिनो द्विजाः । अवकीर्णिवर्ज्य शुद्धयर्थं चान्द्रायणमथापि वा ॥' (मनुः ११।११७) इति मनूक्तं त्रैमासिकं द्रष्टव्यम् । अत एव वचनादयं प्रायश्चित्तातिदेशः सर्वेषामुप- पातकगणपठितानामुक्तप्रायश्चित्तानामनुक्तप्रायश्चित्तानां चावकीर्णिवर्जितानामवि- शेषेण वेदितव्यः । अवकीर्णिनस्तु प्रतिपदोक्तमेव । नन्वनुक्तप्रायश्चित्तविषयतयै- वातिदेशस्य युक्तः; इतरथा प्रतिपदोक्तप्रायश्चित्तबाधसापेक्षत्वप्रसङ्गात् । मैवम् ; तथा सत्युक्तनिष्कृतीनामुपपातकगणपाठोऽनर्थकः स्यात् । यदि परमुपपातकमध्ये सामान्यतः पठितस्यान्यत्र विशेषतः प्रायश्चित्तान्तरमुच्यते । यथा- 'अयाज्यानां च याजनम् । त्रीन्कृच्छ्रानाचरेद् व्रात्ययाजकोऽविचक्षणपि ॥' इति स एव विषयः केवलं परिहियेत न पुनर्विशेषतः पठितस्यैवान्यत्रापि विशेषत एव यन्न प्रायश्चित्त- मुच्यते सोऽपि यथा 'इन्धनार्थं द्रुमच्छेदः' 'वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्- शतम्' इति । अतो व्रात्यतादिषु अस्मिन् शास्त्रे शास्त्रान्तरे वा दृष्टैः प्रायश्चित्तैः सह 'उपपातकशुद्धिः स्यादेवम्' इत्यादिना प्रतिपादितव्रतचतुष्टयस्य समविषयता- कल्पनेन विकल्पो विषयविभागो वाश्रयणीयः । तानि च स्मृत्यन्तरदृष्टप्रायश्चित्तानि पाठक्रमेण व्रात्यतादिषु योजयिष्यामः । तत्र व्रात्यतायां मनुनेदमुक्तम् (११।१९१) -'येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन्कृच्छ्रान्यथा- विध्युपनाययेत् ॥' इति, यच्च यमेनोक्तम् (१३।१११)- 'सावित्री पतिता यस्य दश वर्षाणि पञ्च च । सशिखं वपनं कृत्वा व्रतं कुर्यात्समाहितः ॥ एकविंशतिरात्रं च पिवेत्प्रसृतियावकम् । हविषा भोजयेच्चैव ब्राह्मणान्सप्त पञ्च च ॥ ततो यावक- शुद्धस्य तस्योपनयनं स्मृतम् ॥' इति, -तदुभयमपि याज्ञवल्कीयमासपयोव्रतविष- यम् । यत्तु वसिष्ठेनोक्तम्-'पतितसावित्रीक उद्दालकव्रतं चरेद् द्वौ मासौ याव- केन वर्तयेन्मासं पयसा पञ्चमामिच्छयाऽष्टरात्रं घृतेन षड्रात्रमयाचितेन त्रिरात्रम्-