याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 63, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ७ एवमुक्तेन प्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः कृतैरेनः पापं शमं याति। किम्भूतम् ? बीजगर्भसमुद्भवं शुक्रशोणितसंबद्धं गात्रव्याधिसंक्रान्तिनिमित्तं वा, न तु पतितोत्पन्नत्त्वादि ॥— स्त्रीणां विशेषमाह— तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥ १३ ॥ एता जातकमीदिकाः क्रियाः स्त्रीणां तूष्णीं विनैव मन्त्रैर्यथाकालं कार्याः । विवाहः पुनः समन्त्रकः कार्यः ॥ १३ ॥ भाषा— इस प्रकार से ( इन संस्कारों द्वारा ) शुक्र और गर्भ से संबद्ध पाप शान्त होता है । ये जातकमीदि ) स्त्रियों के लिये विना मन्त्र के किये जाते हैं और विवाह संस्कार मंत्रों के साथ होता है ॥ १३ ॥ उपनयनकालमाह— गर्भाष्टमेऽष्टमे वाऽब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशाभेके यथाकुलम् ॥ १४ ॥ गर्भाधानमादिं कृत्वा जननं वाऽष्टमे वर्षे ब्राह्मणस्योपनायनं उपनयनमेवोप- नायनम् । स्वार्थे अण् । १वृत्तानुसारत, छन्दोभङ्गात् । आर्षं वा दीर्घत्वम् । अत्रेच्छया विकल्पः । राज्ञामेकादशे । विशां वैश्यानां सैके एकादशे । द्वादशे इत्यर्थः । 'गर्भ'ग्रहणं सर्वत्रानुवर्तते । समासे गुणभूतस्यापि 'गर्भ'शब्दस्य बुद्धया विभज्योभयत्राप्यनुवर्तनं कार्यम् । 'गर्भादेकादशे राज्ञो गर्भाद्धि द्वादशे विशः' ( शंख. २।७) इति स्मृत्यन्तरदर्शनात् । यथा अथ ४शब्दानुशासनं, केषां शब्दानाम् ? लौकिकानां वैदिकानामिति । अत्रापि कार्यमित्यनुवर्तते । कुलस्थित्या केचिदुपनयनमिच्छन्ति ॥ १४ ॥ भाषा— गर्भकाल से आठवें अथवा जन्म से आठवें वर्ष में ब्राह्मण का उपनयन संस्कार होता है । इसी प्रकार कुल के अनुसार क्षत्रिय के लिए ग्यारहवें वर्ष में और वैश्य के लिये बारहवें वर्ष में यह संस्कार विहित है ॥ १४ ॥ गुरुधर्मनाह— उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ १५ ॥ स्वगृह्योक्तविधिनाेपनीय गुरुः ५शिष्यं महाव्याहृतिपूर्वकं वेदमध्यापयेत् । महाव्याहृतयश्च भूर्भुवस्स्वस्त्यान्ताः सप्त । पञ्च वा गौतमाभिप्रायेण । किञ्च १. अवधिं कृत्वा जन्मनो । २. प्रकरणानुसारम् । ३. वचनात् । ४. शब्दानामिति । ५. शिष्यं गुरुः ।