याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 636, कुल 782 में से
संदर्भ में पढ़ें[५८०] याज्ञवल्क्यस्मृतिः
'जलान्युद्बन्धनभ्रष्टाः प्रब्रज्यानाशकच्युताः । विषप्रपतनप्रायशस्त्रघातच्युताश्च ये ॥ नैव ते प्रत्यवसिताः सर्वलोकबहिष्कृताः । चान्द्रायणेन शुद्ध्यन्ति तस- त्कृच्छ्रद्वयेन वा ॥' इति ॥ इदं च चान्द्रायणं तप्तकृच्छ्रद्वयात्मकं प्रायश्चित्तद्वयं शक्त्यपेक्षया व्यवस्थितं विज्ञेयम् । यदा तु 'शस्त्रघातहताश्च' इति पाठः, तदात्मत्यागयशास्त्रीयमरणनिमित्तस्तत्पुत्रादेरुपदेशो द्रष्टव्यः ॥ यत्पुनर्वासिष्ठेनो- क्तम्- 'जीवन्नात्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत् , त्रिरात्रं चोपवसेत्' (२३।१२) इति,-तदप्यध्यवसिताशास्त्रीयमरणस्यैव कथंचिज्जीवने शक्त्यपेक्षया द्रष्टव्यम् । अथवा-अध्यवसायमात्रे त्रिरात्रं, शस्त्रादिक्षतस्य द्वादशरात्रमिति व्यवस्था । इदं चावकीर्णिप्रायश्चित्तं गुरुदारतत्समव्यतिरिक्तागम्यागमनविषयम् । तत्र गुरुतर- प्रायश्चित्तस्य दर्शितत्वात् । नच लघुनाऽवकीर्णिब्रतेन द्वादशवार्षिकाद्यपनोद्यमहा- पातकदोषनिबर्हणमुचितम् । नच ब्रह्मचारित्वोपाधिकं लघुप्रायश्चित्तविधानमिति युक्तम्; आश्रमान्तराणां द्वैगुण्यादिवृद्धेर्ब्रह्महत्याप्रकरणे दर्शितत्वात् । न चात्रा- गम्यागमनप्रायश्चित्तं पृथक्कर्तव्यम् ; ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्या- गम्यागमनेनान्तरीयकत्वात् , अतोऽन्यत्रापि यस्मिन्निमित्ते यन्निमित्तान्तरं समं न्यूनं वाऽवश्यंभाविनाः । तत् पृथक् नैमित्तिकं प्रयुङ्क्ते । यथा (मनुः ११।२०८)- 'अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तर- शोणिते ॥' इत्यत्र शोणितोत्पादननिमित्तेऽवंगूरणनिपातलक्षणं निमित्तद्वयमव- श्यंभावित्वेन स्वनैमित्तिकं कृच्छ्रमतिकृच्छ्रं च न प्रयुङ्क्ते, एवमन्यत्राप्यूहनी- यम् । यत्र पुनर्निमित्तानामन्तर्भावनियमो नास्ति, तत्र पुनर्नैमित्तिकानि पृथक्प्रयुज्यन्ते । निमित्तानि यथा-'यदा पर्वणि परभार्यां रजस्वलां तैला- भ्यक्तो दिवा जले गच्छति' इति ॥ ननु ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलन- स्यागमनान्तरीयकतत्वं नास्त्येव; पुत्रिकागमनेऽगम्यागमनदोषाभावात् । तथा हि- न तावत्पुत्रिका कन्या; अक्षतयोनित्वात् , नापि परभार्या; प्रदाना- भावात् , नापि वेश्या; अतद्वृत्तित्वात् , नापि विधवा; भर्तृमरणाभावात् , अतः पुत्रिकायाः क्वाप्यनन्तर्भावादप्रतिषिद्धेति तत्रैव विप्लुतस्य केवलमव- कीर्णिब्रतम् । अन्यत्र विप्लुतस्य तु निमित्तान्तरसंनिपातादवकीर्णिब्रतं नैमि- त्तिकान्तरमपि प्रयोक्तव्यमिति,-तदसत् ; पुत्रिकाया अपि परभार्यास्वान्त- र्भावात् । प्रदानाभावेऽपि विवाहसंस्कारेण संस्कृतत्वात् गान्धर्वादिविवाह- परिणीतावत् । नच 'यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता । नोपय- च्छेत्तु तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥' इति प्रतिषेधात्सगोत्रास्विव भार्यात्वं नोत्पद्यत इति वाच्यम् । दृष्टार्थत्वात् प्रतिषेधस्य व्यङ्गाङ्ग्यादिप्रतिषेधवत । दृष्टार्थत्वं
१. आविभ्रस्तत्र । २. अवगोरेण । ३. प्रयुक्तं अतः पृथ ।