याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 638, कुल 782 में से
संदर्भ में पढ़ें५८२ :याज्ञवल्क्यस्मृतिः भाषा—बिना अस्वस्थता के सात दिन तक भिक्षाटन और अग्निकर्म छोड़ने पर 'कामावकीर्ण' आदि (कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा। कामावपन्नोऽस्म्यवपन्नोऽस्मि कामकामाय स्वाहा' इन दोनों मन्त्रों से दो आहुति करके 'संमा सिंचन्तु मरुतः समिन्द्रः संबृहस्पतिः । समायमग्निः सिंचन्तां यशसा ब्रह्मवर्चसेन।' मन्त्र से पुनः अग्नि का उपस्थान करे ॥ २८१३ ॥ मधुमांसाशने कार्यः कृच्छ्रः शेषंव्रतानि च ॥ २८२ ॥ प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति । किंञ्च, ब्रह्मचारिणा अमत्या मधुमांसभक्षणे कृच्छ्रः कार्यः । तदनन्तरम- वशिष्टानि व्रतानि समापयेत् । एतच्च शिष्टभोजनाहंशशादिमांसभक्षणविष- यम् । 'ब्रह्मचारी चेन्मांसमश्नीयाच्छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं चरित्वा व्रतशेषं समापयेत्' (२३।११) इति वसिष्ठस्मरणात् । 'द्वादशरात्र' ग्रहणं तु मतिपूर्वाभ्यासापेक्षयाऽतिकृच्छ्रपराकादेरपि प्राप्त्यर्थम् । यदा तु मांसेकापनोद्य- व्याध्यभिभूतस्तदा मांसं गुरोरुच्छिष्टं कृत्वा भक्षणीयम् । 'स चेद्याधितः कामं गुरोरुच्छिष्टं भेषज्यार्थं सर्वं प्राश्नीयात्' (२३।९) इति तेनैवोक्तत्वात् । 'सर्व'- ग्रहणं मांसलशुनाद्यभक्ष्यमात्रसंग्रहार्थम् । तल्लक्षणेन चापगतव्याधिरादित्यमु- पतिष्ठेत । तथा च बौधायनः (२।१।२६-२७)—'येनेच्छेत्तु चिकित्सितुं तु यद्याऽगदो भवति तदोत्थायादित्यमुपतिष्ठेत' 'हंसः शुचिषत्' इति । मधुनोऽ- प्यज्ञानतः प्राशनोपपत्तौ न दोषः । 'अकामोपनतं मधु वाजसनेयके न दुष्यति' (२३।१४) इति वसिष्ठस्मरणात् । अन्यसूतकान्नादिभक्षणप्रायश्चित्तं त्वभक्ष्य- प्रायश्चित्तप्रकरणे वक्ष्यामः । आज्ञाप्रतिघातादिना गुरोः प्रतिकूलमाचरन् पाद- प्रणिपातादिना गुरुं प्रसाद्य विशुध्यति ॥ २८२३ ॥ भाषा—मधु और मांस खाने पर कृच्छ्र और अवशिष्ट व्रत करे । गुरु के विपरीत कार्य करने पर उन्हें प्रसन्न करने पर ही (ब्रह्मचारी) शुद्ध होता है ॥ २८२३ ॥ ब्रह्मचारिप्रायश्चित्तप्रसङ्गाद् गुरोरपि प्रायश्चित्तमाह— कृच्छ्रत्रयं गुरुः कुर्यान्म्रियते^२ प्रहितो यदि ॥ २८३ ॥ यस्तु गुरुश्चोरोगव्याघ्रादिभयाकुलप्रदेशे सान्द्रतरान्धकाराकुलितानिशीथा- वसरे कार्यार्थं शिष्यं प्रेरयति, स च गुरुणा प्रेरितो दैवान्मृतस्तदा स गुरुः कृच्छ्राणां प्राजापत्यादीनां त्रयं कुर्यात्, न पुनस्त्रयः प्राजापत्याः, तथा सति पृथक्त्वनिवेशिनी संख्यानुपपन्ना स्यात् । न च 'एकादश प्रयाजान्द्यजति' इति- वदावृत्त्यपेक्षा संख्येति चतुरस्रम् ; स्वरूपपृथक्त्वे संभवत्यावृत्त्यपेक्षया अन्याय्य- १. शेषे व्रतानि । २. प्रहितो म्रियते यदि । ३. पृथक्त्वनिवेशिनी ।