याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 641, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ३८५ अभिशंसिप्रायश्चित्तप्रसङ्गादभिशस्तप्रायश्चित्तमाह- अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयमेव वा । १निर्वपेत्तु पुरोडाशं वायव्यं पशुमेव वा ॥ २८६ ॥ यः पुनर्मिथ्याभिशस्तः स कृच्छ्रं प्राजापत्यं चरेत् । अग्निदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पुरोडाशेन यजेत । वायुदैवत्येन वा पशुना । एषां च पक्षाणां शक्तिसंभवापेक्षया व्यवस्था । यत्तु वसिष्ठेन 'मासमठभ- क्षणमुक्तमेतेनैवाभिशस्तो व्याख्यातः' (२४।३७) इति,-तदभिशस्तस्यैव किंचित्का- लमकृतप्रायश्चित्तस्य सतो द्रष्टव्यम् ; 'संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः' इति दण्डातिरेकदर्शनात् । यत्तु पैठीनशिनोक्तम्-'अनृतेनाभिशस्यमानः कृच्छ्रं चरेन्मासं पातकेषु महापातकेषु द्विमासम्' इति,-तदपि वासिष्ठेन समान- विषयम् । यत्तु बौधायनेनोक्तम्-'पातकाभिशंसिने कृच्छ्रस्तदर्थमभिशस्तस्य' ( २।१।६०।१ ) इति,-तदुपपातकादिविषयं अशक्तविषयं वा । एवमन्येषाम- ष्टृष्टवाचवप्रायश्चित्तानामभिशस्तविषयाणां कालशक्त्याद्यपेक्षया व्यवस्था विज्ञेया । यथाह मनुः (११।२००)-'षष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥' इति । अपाङ्क्तानां मध्ये अभिशस्तादयः पठिताः । यद्यप्यत्राभिशस्तस्य निषिद्धाचरणं नोपलभ्यते तथापि मिथ्याभिशस्तत्वलिङ्गानुमितप्राग्भवीयनिषिद्धाचरणापूर्वनिबन्धनमिदं प्रायश्चित्तं कृमिदष्टनामिवेति न विरोधः ॥ २८६ ॥ भाषा-जिस पर झूठा दोषारोपण किया गया हो वह कृच्छ्र व्रत करे अथवा अग्नि देवता का पुरोडाश से यज्ञ करे अथवा वायु के लिये पुरोडाश से यज्ञ करे अथवा वायु के लिये पुरोडाश से या एक पशु से यज्ञ करे ॥ २८६ ॥ अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत् । किंच, यस्तु नियोगं विना भ्रातुर्ज्येष्ठस्य कनिष्ठस्य वा भार्यां गच्छति स चान्द्रायणं चरेत् ।-एतच्च सकृदमतिपूर्वविषयं द्रष्टव्यम् । यत्तु शङ्खवच- नम्-'परिवित्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयातां ज्येष्ठभार्या- मनियुक्तो गच्छंस्तदेव कनिष्ठभार्यां च' इति,-तत्कामकारविषयम् ॥- भाषा-बिना नियोग के (श्रेष्ठ जनों की आज्ञा के बिना ही) जेठे वा छोटे भाई की पत्नी से भोग करने वाला चान्द्रायण व्रत करे । किंचाह- त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ २८७ ॥ यः पुनरुदक्यां रजस्वलां स्वभार्यामपि गच्छति स त्रिरात्रमुपोण्यान्ते घृतं १. निर्वपेत्त पुरोडाशं वायव्यं पशुमेव वा ।