याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 648, कुल 782 में से
संदर्भ में पढ़ें(प्रा० २४१) इत्युक्तं तत्र हारीतेन विशेष उक्तः—'अनाश्रमी संवत्सरं प्राजापत्यं कृच्छ्रं चरित्वाश्रममुपेयात् । द्वितीयेऽतिकृच्छ्रं तृतीये कृच्छ्रातिकृच्छ्रमत ऊर्ध्वं चान्द्रायणम्' इति । - एतदसंभवविषयम् । संभवे तु सामान्येनोपपातक- प्रायश्चित्तानि कामाकामतॊ व्यवस्थापनीयानि । परपाकरुचिस्वासङ्गाच्छादिग- मनाकराधिकारभार्याविक्रयेषु च मनुयोगीश्वरप्रतिपादितोपपातकसामान्यप्रा- यश्चित्तानि जातिशक्तिगुणाद्यपेक्षया व्यवस्थापनीयानि ॥ २८८ ॥ भाषा—व्रात्य (पतित सावित्री) को यज्ञ कराने वाला और अभिचार कर्म करने वाला तीन कृच्छ्र व्रत करे। अपने वेद का विप्लावन करने वाला (चण्डाल आदि के समक्ष और अनध्याय में पढ़ने वाला), तथा शरण में आये हुए व्यक्ति की (समर्थ होने पर भी) रक्षा न करने वाला एक वर्ष तक जौ का भात खाने पर शुद्ध होता है ॥ २८८ ॥ 'भार्याया विक्रयश्चैषाम्' (प्रा० २४२) इत्यत्र 'च'शब्दो मन्वाद्युक्त- सप्रतिग्रहनिन्दितान्नादनामपुलक्षणार्थमित्युक्तम् । तत्रासत्प्रतिग्रहे प्रायश्चि- त्तविशेषमाह— गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रतः । गायत्रीजाप्यनिरतः शुद्ध्येतेऽसत्प्रतिग्रहात् ॥ २८९ ॥ यस्त्वसत्प्रतिग्रहं निषिद्धप्रतिग्रहं करोति स ब्रह्मचर्ययुक्तो गोष्ठे वसन् गायत्री- जाप्यनिरतो गायत्रीजपशीलो मासं पयोव्रतेन शुद्ध्यतीति । प्रतिग्रहस्य चासत्त्वं दातृजातिकर्मनिबन्धनं यथा चाण्डालादेः पतितादेश्च । तथा देशकालनिबन्धनं च यथा कुरुक्षेत्रोपरागादौ तथा प्रतिग्राह्यद्रव्यनिबन्धनं च यथा सुरामेषीमृत- शय्योभयतोमुख्यादेः ॥ यदा तु पतितादेर्मेष्यादिकं प्रतिगृह्णाति, तदैतद्गुरु- प्रायश्चित्तं द्रष्टव्यम् ; व्यतिक्रमद्वयदर्शनेन निमित्तस्य गुरुत्वात् । तत्र जपे मनुना संख्याविशेष उक्तः (११।१९४)—'जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥' इति प्रत्यहं त्रिसहस्रजपो द्रष्टव्यः; 'मासम्' इति द्वितीयया त्रिसहस्रसंख्याकस्य जपस्य प्रतिदिवसव्यापित्वावगमात् । यदा तु न्यायवर्तिब्राह्मणादेः सकाशाद्विषिद्धं मेषादिकं गृह्णाति, पतितादेर्वा भूम्यादिकमनिषिद्धं तदा षट्त्रिंशन्मतोक्तं द्रष्ट- व्यम्—'पवित्रेष्ट्या विशुद्ध्यन्ति सर्वे घोराः प्रतिग्रहाः । ऐन्दवेन मृगारेष्ट्या कदाचिन्मित्रविन्दया ॥ देव्या लक्षजपेनैव शुद्ध्यन्ते दुष्प्रतिग्रहात् ॥' इति । यत्तु वृद्धहारीतवचनम्—'राज्ञः प्रतिग्रहं कृत्वा मासम्प्सु सदा वसेत् । षष्ठे १. जप्यनिरतः । २. निरतो मुच्यतेऽसत्प्रति । ३. दिकं गृह्णाति ।