याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 65, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः भाषा—ब्राह्मण प्रतिदिन दोनों घुटनों के बीच हाथ रखकर, पवित्र स्थल पर उत्तर या पूर्व की ओर मुख करके बैठे और ब्राह्म तीर्थ से आचमन करे ॥ १८ ॥ प्राजापत्यादितीर्थान्याह— कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ १९ ॥ कनिष्ठायास्तर्जन्या अङ्गुष्ठस्य च मूलानि करस्याग्रं च प्रजापतिपितृब्रह्मदेव- तीर्थानि यथाक्रमं वेदितव्यानि ॥ १९ ॥ भाषा—कनिष्ठा, तर्जनी और अंगुठे के मूलभाग तथा हाथ का अग्रभाग- ये सब क्रमशः प्रजापति तीर्थ, पितृतीर्थ और देवतीर्थ कहे जाते हैं ॥ १९ ॥ आचमनप्रकारः— त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् । अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः ॥ २० ॥ वारत्रयमपः पीत्वा मुखमङ्गुष्ठमूलेन द्विरुन्मृज्य खानि छिद्राणि ऊर्ध्वकाय- गतानि घ्राणादीनि अद्भीरुपस्पृशेत् । १अद्भिरित्यशान्तरसंसृष्टाभिः । २पुनरद्भि- रित्यवग्रहणं प्रतिच्छिद्रमुदकस्पर्शानार्थम् । स्मृत्यन्तरात्-'अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैव मुखं स्पृशेत् । अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रं पुनः पुनः ॥ कनिष्ठाङ्गुष्ठ- योर्नाभिं हृदयं तु तलेन वै । सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् ॥' इति । पुनस्ता एव विशिनष्टि-प्रकृतिस्थाभिः गन्धरूपरसस्पर्शान्तरमप्राप्ताभिः । फेनबुद्बुदरहिताभिः । तु शब्दादूर्ध्वधारागतानां शूद्राद्यावर्जितानां च निषेधः ॥ २० ॥ भाषा—तीन बार जल पीकर, (अँगूठे के मूलभाग से) दो बार मुख धोकर, नाक, कान, आँख और मुँह का जल से स्पर्श करे। वह जल स्वच्छ होना चाहिए' उसमें फेन एवं बुलबुले न होंवे ॥ २० ॥ | हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः । शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ २१ ॥ हृत्कण्ठतालुगाभिरद्भिर्यथाक्रमेण द्विजातयः शुष्यन्ति । स्त्री च शूद्रश्च अन्ततः ३अन्तर्गतेन तालुना स्[पृ]ष्टाभिरपि । 'सकृत्' इति वैश्याद्विशेषः । च शब्दादनुपनीतोऽपि ॥ २१ ॥ १. संस्पृष्टाभिः । २. पुनर्रवग्रहणं । ३. अन्तेन ।