याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 680, कुल 782 में से
संदर्भ में पढ़ेंच्चाकामकारविषयम् । अत एव वसिष्ठेन—'यद्यकार्यशतं साग्रं कृतं वेदश्च धार्यते । सर्वं तत्तस्य वेदाग्निर्दहत्यग्निरिवेन्धनम् ॥' इति प्रकीर्णकाद्यभिप्राये- णाभिधायाभिहितम्—'न वेदबलमाश्रित्य पापकर्मीरतिर्भवेत् । अज्ञानाच्च प्रमादाच्च दह्यते कर्म नेतरत् ॥' इति ॥ ३१० ॥ भाषा—वेदाभ्यास में रत रहने वाले और पंचयज्ञ क्रिया में तत्पर व्यक्ति को महापातक से उत्पन्न पाप नहीं छूते हैं ॥ ३१० ॥ वायुभक्षो दिवा तिष्ठेन् रात्रौ नीत्वाऽप्सु सूर्यदृक् । जप्त्वा सहस्रं गायत्र्याः शुद्ध्येद् ब्रह्मवधादृते ॥ ३११ ॥ किंच, सोपवासो वासरमुपविशन् उत्थित्वा सलिले वसन्निशां नीत्वादित्यो- दयानन्तरं सावित्र्याः सहस्रं जप्त्वा ब्रह्मवधव्यतिरिक्तसकलमहापातकादिपाप- जातान्मुच्यते । अतश्चोपपातकादिष्वभ्यासेऽनेक दोषसमुच्चये वा वेदितव्यम् ; विषमविषयसमीकरणस्यान्याय्यत्वात् । अत एव वृद्धवसिष्ठेन महापातको- पपातकयोः कालविशेषेण व्रतविशेष उक्तः । यथाह—'यवानां प्रसृतिमञ्जलिं वा श्रप्यमाणं शृतं वाभिमन्त्रयेत् । यवोऽसि धान्यराजस्त्वं वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतः ॥' इत्यनेन । 'घृतं यवा मधुयवाः पवित्रममृतं यवाः । सर्वं पुनन्तु मे पापं वाङ्मनःकायसंभवम् ॥' इत्यनेन वा । 'अग्निकार्यं तु कुर्वीत तेन भूतबलिं तथा । नान्नं न भिक्षां नातिथ्यं न चोच्छिष्टं परिवर्जयेत् ॥' 'ये देवा मनोजाता मनोजुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा' इत्यात्मनि जुहुयात्त्रिरात्रं मेधाभिवृद्धये पापक्षयाय त्रिरात्रं ब्रह्महत्यादिषु द्वादशरात्रं पतितोत्पन्नश्चेत्स्याद्दिगवलम्बने- न्यान्यपि स्मृतिवचनानि विवेचनीयानि ॥ ३११ ॥ भाषा—दिन में उपवास करके रात्रि भर जल में रहकर सूर्योदय के हो जाने पर एक सहस्र बार गायत्री का जप करने पर ब्रह्महत्या के अतिरिक्त अन्य सभी महापातकों से शुद्धि हो जाती है ॥ ३११ ॥ इति रहस्यप्रायश्चित्तप्रकरणम् । विनियुक्तव्रतव्रतरूपभेदे बुभुत्सिते । कीदृशमिति संक्षेपल्लक्षणं वक्ष्यतेऽधुना ॥ तत्र तावत्सकलप्रकाररहस्यव्रताङ्गभूतान्धर्मानाह— ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसा स्तेयमाधुर्यं दमश्चेति यमाः स्मृताः ॥ ३१२ ॥
१. तिष्ठेत् । २. शुद्धिर्मता । ३. घृतं चाभिमन्त्रयेत् ।