याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 693, कुल 782 में से
संदर्भ में पढ़ेंपातकम् , दुरिष्टं पातकम् । गौतमेन तु कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रा- यश्चित्तमिति विसमासकरणेनैन्द्वंवनिरपेक्षता कृच्छ्रातिकृच्छ्रयोः सूचिता । चान्द्रा- यणस्य निरपेक्षता 'इति'शब्देन च त्रयाणां समुच्चयः । केवलप्राजापत्यस्य तु निरपेक्षं चतुर्विंशतिमतेऽभिहितम् —'लघुदोषे त्वनादिष्टे प्राजापत्यं समाचरेत्' इति । गौतमेनापि प्राजापत्यादेर्निरपेक्षत्वमुक्तम् —'प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति, द्वितीयं चरित्वा यदन्यन्महापातकेभ्यः पापं कुरुते तस्मात्प्र- मुच्यते, तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते' इति महापातकादपीत्यभिप्रेतम् । मनुनाप्युक्तम् ( ११।२१५ ) —'पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः' इति । हारीतेनाप्युक्तम्—'चान्द्रायणं यावकश्च तुलापुरुष एव च । गवां चैवा- नुगमनं सर्वपापप्रणाशनम् ॥' तथा —'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोद- कम् । एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥' तथा तप्तकृच्छ्रमधिकृत्यापि तेनैवोक्तम् —'एष कृच्छ्रो द्विरभ्यस्तः पातकेभ्यः प्रमोचयेत् । त्रिरभ्यस्तो यथा- न्यायं भ्रूणहत्यां व्यपोहति ॥' इति । उशनसा चोक्तम् —'यत्रोक्तं यत्र वा नोक्तं महापातकनाशनम् । प्राजापत्येन कृच्छ्रेण शोधयेन्नात्र संशयः ॥' इति । एतानि प्राजापत्यादीन्यनादिष्टेषूपपातकादिषु सकृदभ्यासापेक्षया व्यस्तानि वा योजनीयानि । तथा आदिष्टव्रतेष्वपि महापातकादिषु अभ्यासापेक्षया योजनी- यानि । अत एव यमेनोक्तम् —'यत्रोक्त'मित्यादि । गौतमेनाप्युक्तनिष्कृतीनां संग्रहार्थं सर्वप्रायश्चित्तग्रहणं कृतम् । तथा यद्यपि तेनैवोक्तम् —'द्वितीयं चरित्वा यदन्यन्महापातकेभ्यः पापं कुरुते तस्मात्प्रमुच्यते' इत्युक्त्वा 'तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते' इति,-तदपि महापातकाभिप्रायं नतु क्षुद्रपातकाभि- प्रायम् । नच महापातकमनुक्तनिष्कृतिकं संभवति, तस्मादुक्तनिष्कृतिकेष्वपि प्राजापत्यादयो योजनीयः । तत्र द्वादशवार्षिकव्रते द्वादशद्वादशदिनान्येकैकं प्राजापत्यं परिकल्प्य गण्यमाने प्राजापत्यानां षष्ट्यधिकशतत्रयं द्वादशवार्षिके वैकल्पिकमनुष्ठेयं भवति । तदशक्तौ तावत्यो वा धेनवो दातव्याः । तदसंभवे निष्काणां षष्ट्यधिकशतत्रयं दातव्यम् । तथा स्मृत्यन्तरम् —'प्राजापत्यक्रियाऽ- शक्तो धेनुं दद्याद्विचक्षणः । धेनोरभावे दातव्यं मूल्यं तुल्यमसंशयम् ॥ मूल्या- र्धमपि निष्कं वा तदर्धं शक्त्यपेक्षया । गवामभावे निष्कः स्यात्तदर्धं पाद एव वा' इति स्मरणात् । मूल्यदानस्याप्यशक्तौ तावन्तो चोदवासाः कार्याः । तत्राप्यशक्तौ गायत्रोजपः षट्त्रिंशल्लक्षसंख्याकः कार्यः; 'कृच्छ्रोऽयुतं तु गाय- त्र्या उदवासस्तथैव च । धेनुप्रदानं विप्राय सममेतच्चतुष्टयम् ॥' इति परा- शरस्मरणात् । यत्तु चतुर्विंशतिमतेऽभिहितम् —'गायत्र्यास्तु जपन्कोटिं ब्रह्म- . १. सर्वपातकनाशनं । २. तन्मूल्यं वा न संशयः ।