याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 695, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ६३६ वासत्रयम् । पुनश्चान्त्यत्र्यहे चोपवासत्रयमिति युक्तं षडुपवासतुल्यत्वम् । ऋषभै- कादशगोदानसहितत्रिरात्रोपवासात्मकगोवधव्रते तु सार्धैकादशप्राजापत्यास्ता- वत्संख्याकाश्चोदवासादयः प्रत्याम्नायाः । मासं पयोव्रते तु सार्धं प्राजापत्य- द्वयम् । पराकात्मके तूपपातकव्रते प्राजापत्यत्रयं पराकतप्तातिकृच्छ्रस्थाने कृच्छ्र- त्रयं चरेत् । 'सान्तपनस्य वाध्यर्धमशक्तौ व्रतमाचरेत्' इति षट्त्रिंशन्मतेऽ- भिधानात् , चान्द्रायणपराककृच्छ्रातिकृच्छ्रास्तु प्राजापत्यत्रयात्मका द्वादश- वार्षिकव्रतस्थाने विंशत्युत्तरशतसंख्या अनुष्ठेयाः । तत्प्रत्याम्नायास्तु धेन्वाद- यस्त्रिगुणाः । अतिपातकेषु नवतिसंख्याकाश्चान्द्रायणादयः । तत्समेषु पुनः पात- कपदाभिधेयेषु षष्टिसंख्याः । उपपातकेषु त्रैवार्षिकविषयेषु त्रिंशत्संख्याः । त्रैमासिके गोवधव्रतस्थाने गोमूत्रस्नानादीनां कर्तव्यताबाहुल्याच्चान्द्रायणा- दित्रयम् । मासिकव्रते तु योगीश्वरोक्ते एकमेव चान्द्रायणं धेनूदवासादिप्रत्या- म्नायस्तु सर्वत्र त्रिगुण एव । प्रकीर्णकेषु पुनः प्रतिपदोक्तप्रायश्चित्तानुसारेण प्राजापत्यं पादादिक्लृप्त्या योजनीयम् । आवृत्तौ पुनश्चान्द्रायणादिकमिति एत- द्दिगवलम्बनेनान्यत्रापि कल्पना कार्या । यत्पुनर्बृहस्पतिनोक्तम्—'जन्मप्रभृति यत्किंचित्पातकं चोपपातकम् । तावदावर्तयेत्कृच्छ्रं यावत्षष्ठिगुणं भवेत् ॥' इति । तत् 'द्वे परदारे' इति गौतमोक्तद्विवार्षिकसमानविषयम् । तथा त्रैमासिका- दिविषयभूतोपपातकावृत्तिविषयं वा । पातकपदाभिधेयचाण्डालादिस्त्रीगमने द्विरभ्यासविषयं वा । तत्र 'ज्ञानात्कृच्छ्रान्दविधानात्तदभ्यासे द्विवर्षतुल्यषष्टि- कृच्छ्रविधानं युक्तमेव । यत्तु सुमन्तुनोक्तम्—'यदप्यसकृदभ्यस्तं बुद्धिपूर्वमघं महत् । तच्छुध्यत्यब्दकृच्छ्रेण महतः पातकादृते ॥' इति,—तदुप्युपपातकाद्या- वृत्तिविषयम् । तथा 'अज्ञानादैन्दवद्वयमि'ति यमोक्तैन्दवद्वयविषयभूतपातका- वृत्तिविषयं वा । यस्तु तपस्यसमर्थो धान्यसमृद्धश्च स कृच्छादिव्रतानि द्विजा- ग्रयभोजनदानेन संपादयेत् । तथाहि स्मृत्यन्तरम्—कृच्छ्रे पञ्चातिकृच्छ्रे त्रिगुण- महरहस्त्रिंशदेवं तृतीये, चत्वारिंशच्च तप्ते त्रिगुणितगुणिता विंशतिः स्यात्पराके । कृच्छ्रे सान्तापनाव्ये भवति षडधिका विंशतिः सैव हीना, द्वाभ्यां चान्द्रायणे स्यात्तपसि कृशबलो भोजयेद्विप्रमुख्यान् ॥' इति । अहररिति सर्वत्र संबन्ध- नीयम् । तृतीयः कृच्छ्रातिकृच्छ्रः । अत्र प्राजापत्यदिवसकल्पनया विप्रद्विप्राणां षष्टिभोजनं भवति । यत्तु चतुर्विंशतिमतेऽभिहितम्—'विप्रा द्वादश वा भोज्याः पावकेष्टितथैव च । अन्यो वा पावनी काचित्समान्याहुर्मनीषिणः ॥' इति प्राजापत्यस्थाने द्वादशानां विप्राणां भोजनमुक्तं,—तन्निर्धनविषयम् । यच्चा- १. ततश्चान्त्यत्र्यहे । २. स्नानादीतिकर्तव्यता । ३. अन्यद्वा पावनं किंचित्सममाहुर्मनीषिणः ।