भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 71, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 71

आचाराध्यायः १५ ब्राह्मणस्य कार्यम्। एतच्च द्वादशवार्षिके वेदव्रते बोद्धव्यम्। इतरस्मिन्पक्षे यथासंभवं द्रष्टव्यम्। राजन्य-वैश्ययोस्तूपनयनकालवद् द्वाविंशे चतुर्विंशे वा१ द्रष्टव्यम् ॥ ३६ ॥ भाषा—प्रत्येक वेद के लिए बारह अथवा पांच वर्षों का ब्रह्मचर्यकाल होता है; किन्तु कुछ लोग विद्याग्रहण के अन्त तक ब्रह्मचर्य बताते हैं। केशान्त या गोदान नाम का कर्म (गर्भकाल से) सोलहवें वर्ष में करना चाहिए ॥ ३६ ॥ उपनयनकालस्य परमावधिमाह— आ षोडशादा द्वाविंशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मक्षत्रविशां काल औपनायनिकः परः ॥ ३७ ॥ अत ऊर्ध्वं पतन्त्येते २सर्वधर्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥ ३८ ॥ आषोडशाद्वर्षात्षोडशवर्षं यावत् आ द्वाविंशादा चतुर्विंशाद्वर्षाद्ब्रह्मक्षत्रविशां३ औपनायनिकः उपनयनसंबंधी परः कालः। नातः परमुपनयनकालोऽस्ति, किन्तु अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः। सर्वधर्मेष्वनधिकारिणो भवन्ति। सावित्रीपतिताः पतितसावित्रीका भवन्ति। सावित्रीदानयोग्या न भवन्ति। व्रात्याः संस्कारहीनाश्च व्रात्यस्तोमात्क्रतोर्विना कृते तु तस्मिन्नुपनयनाधिकारिणो भवन्ति ॥ ३७-३८ ॥ भाषा—सोलह, बाइस और चौबीस वर्ष तक क्रमशः ब्राह्मण, क्षत्रिय वैश्य के लिए उपनयन संस्कार की आखिरी अवधि होती है। इस समय के बाद (यज्ञोपवीत न होने पर) ये सभी धर्मों से बहिष्कृत होकर च्युत, सावित्रीदान के अयोग्य और व्रात्यस्तोम यज्ञ के बिना व्रात्य अर्थात् संस्कारहीन हो जाते हैं ॥ ३७-३८ ॥ 'आद्यास्त्रयो द्विजाः' (आचार. २०।१) इत्युक्तं, तत्र हेतुमाह— मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ॥ ३९ ॥ मातुः सकाशात्प्रथमं जायन्ते, मौञ्जिबन्धनाच्च द्वितीयं जन्म यस्मात्तस्मादेते ब्राह्मण-क्षत्रिय-वैश्या द्विजा उच्यन्ते ॥ ३९ ॥ १. वा यथासंभवं। २. त्रयोऽप्येते यथाकालमसंस्कृताः। ३. ब्राह्मणक्षत्रियविशां।