याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 73, कुल 782 में से
संदर्भ में पढ़ेंमेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् । पितॄंश्च मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः ॥ ४४ ॥ वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः । इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् ॥ ४५ ॥ मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् । करोति तृप्तिं ३कुर्याच्च पितॄणां मधुसर्पिषा ॥ ४६ ॥ ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । यः पुनः शक्तितोऽन्वहं अथर्वाङ्गिरसोऽधीते स देवान्मेदसा पितॄंश्च मधुस- र्पिभ्यां तर्पयति । यस्तु वाकोवाक्यं प्रश्नोत्तररूपवेदवाक्यम् । पुराणं ब्राह्मादि । चकारान्मानवादिधर्मशास्त्रम् । नाराशंसीश्च रुद्रदैवत्यान्मन्त्रान् । गाथा यज्ञ- गाथेन्द्रगाथाद्याः । इतिहासान् महाभारतादीन् । विद्याश्च वारुणाद्या विद्याः । शक्तितोऽन्वहमधीते । स मांसक्षीरौदनमधुसर्पिर्भिर्देवान् पितॄंश्च मधुसर्पिभ्यां तर्पयति ॥ ते पुनस्तृप्ताः सन्तो देवाः पितरश्च एनं स्वाध्यायकारिणं सर्वकामफलैः शुभैरनन्योपघातलक्षणैस्तर्पयन्ति ॥ भाषा—जो द्विज प्रतिदिन यथाशक्ति अथर्वाङ्गिरस पढ़ता है वह देवों का मेद द्वारा एवं पितरों का मधु और घृत द्वारा तर्पण करता है। जो (द्विज) प्रतिदिन यथाशक्ति वाकोवाक्य पुराण, नाराशंसी, गाथा इतिहास तथा (वारुणादि) विद्याओं का अध्ययन करता है वह मांस दूध, ओदन और मधु द्वारा देवताओं के लिए तर्पण करता है और पितरों को मधु तथा घृत द्वारा तृप्त करता है, वे (देवता और पितर) तृप्त होकर इस (स्वाध्याय के अधिकारी) को सभी शुभ अभीष्ट फलों द्वारा सुखी बनाते हैं ॥ प्रशंसार्थमाह— यं यं क्रतुमधीते४ च तस्य तस्याप्नुयात्फलम् ॥ ४७ ॥ त्रिवित्तपूर्णपृथिवीदानस्य फलमश्नुते । तँपसश्च परस्येह ६नित्यं स्वाध्यायवान्द्विजः ॥ ४८ ॥ यस्य यस्य क्रतोः प्रतिपादक वेदैकदेशमन्वहमधीते तस्य तस्य क्रतोः फलमवाप्नोति । तथा वित्तपूर्णायाः पृथिव्याः त्रिः त्रिवारं दानस्य यत्फलं परस्य १. पितॄंश्च मधुसर्पिषा । संतर्पयेद्यथाशक्ति योऽथर्वाङ्गिरसीः पठेत् । २. विद्यां योऽधीते शक्तितोऽन्वहम् । ३. च तथा । ४. मधीयीत; मधीतेऽसौ ५. तपसो यत्परस्य । ६. नित्यः । २ या०