भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 95, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 95

आचाराध्यायः ३६ बह्वीषु धर्म्ये विधौ धर्मानुष्ठाने ज्येष्ठा विना ज्येष्ठां मुक्त्वा इतरा मध्यमा कनिष्ठा वा न नियोक्तव्या ॥ ८८ ॥ भाषा-सवर्ण ( अपनी जाति की ) पत्नी के जीवित रहते दूसरी पत्नी से धर्मकार्य न करावे । यदि सवर्णा पत्नियाँ अनेक हों तो ज्येष्ठा पत्नी को छोड़ दूसरी से (धर्मकार्य) न करावे ॥ ८८ ॥ प्रमीतपतिकाया विधिमुक्त्वा इदानीं प्रमीतभार्यं प्रत्याह- दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन् ॥ ८९ ॥ पूर्वोक्तवृत्तवतीं आचारवतीं विपन्नां स्त्रियमग्निहोत्रेण श्रौतेनाग्निना तदभावे स्मार्तेन दाहयित्वा पतिः भर्ता अनुत्पादितपुत्रोऽनिष्टयज्ञो वा आश्रमान्तरेष्वनधि- कृतो वा स्त्र्यन्तराभावे पुनर्दारान् अग्नींश्च विधिवदाहरेत् । अविलम्बयन् शीघ्रमेव । - 'अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः' इति दक्षस्मरणात् । एतच्चाधानेन सहाधिकृताया एव, नान्यस्याः । यत्तु - द्वितीयां चैव यो भार्यां दहेद्वैतानिकाग्निभिः । जीवन्त्यां प्रथमायां हि सुरापानसमं हि तत् ॥' इति, तथा - 'मृतायां तु द्वितीयायां योऽग्निहोत्रं समुत्सृजेत् । ब्रह्मघ्नं तं विजानीयाद्यश्च कामात्समुत्सृजेत् ॥' इत्येवमादि, तदाधानेन सहानधिकृताया अग्निदाने वेदितव्यम् ॥ ८९ ॥ भाषा-यदि उत्तम आचार वाली पत्नी की मृत्यु हो जाय तो पति अग्निहोत्र की अग्नि से उसका दाहसंस्कार करके यथाशीघ्र विधि-पूर्वक दूसरी पत्नी ग्रहण करे और पुनः अग्निहोत्राग्नि का आधान करे ॥ ८९ ॥ इति विवाहप्रकरणम् । अथ वर्णजातिविवेकप्रकरणम् ब्राह्मणस्य चतस्रो भार्या भवन्ति, क्षत्रियस्य तिस्रः, वैश्यस्य द्वे, शूद्रस्यैका, इत्युक्त्वा, तासु च पुत्रा उत्पादयितव्या इत्युक्तम् । इदानीं कस्यां कस्मात् कः पुत्रो भवतीति विवेकंमाह- सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ ९० ॥ सवर्णेभ्यो ब्राह्मणादिभ्यः सवर्णासु ब्राह्मण्यादिषु सजातयो मातृपितृसमान- जातीयाः पुत्रा भवन्ति । 'विन्नास्वेष विधिः स्मृतः' ( २९ ) इति सर्वशेषत्वे १. विवक्तुमाह ।