भारतकोश
योगिनी हृदयम् (अमृतानन्दनाथ विमर्शिनी एवं पं. व्रजवल्लभ द्विवेदी सविस्तार सटीक)

योगिनी हृदयम् (अमृतानन्दनाथ विमर्शिनी एवं पं. व्रजवल्लभ द्विवेदी सविस्तार सटीक)

Yogini Hridayam with Amritanandanatha Dipika by Vraj Vallabha Dwivedi

अमृतानन्दनाथ (भाष्यकार: पं. व्रजवल्लभ द्विवेदी) द्वारा

DevanagariHindipublished485 पृष्ठ

पृष्ठ 449, कुल 485 में से

संदर्भ में पढ़ें
पृष्ठ 449

आद्यनाथविरचिता ३९९ सूर्यचन्द्रमसो¹रन्तश्चरन्ति² स्थितिहेतवः । ³तथा विमर्शवपुषः सर्गस्याद्याः⁴ कलाः स्मृताः ॥३९॥ द्विधेयं⁵ मातृका देवी बीजयोन्यात्मना स्थिता । नित्यप्रवृत्ता⁶ शृङ्गाटवपु⁷र्विश्वस्य जन्मभूः ॥४०॥ हृदयं बीजमेतस्यां⁸ सारं९ यत्तत्परं¹⁰ महः । वटबीजे यथा वृक्षस्तथात्र¹¹ निहितं जगत् ॥४१॥ विचार्यमाणे¹२ नैवेदं कारणादतिरिच्यते । मृदादेः¹³ कलशादीनां तत्त्वं नान्यन्निरूपणे¹⁴ ॥४२॥ इत्याहुस्तत्त्ववादिन्यः श्रुतीनामन्तिमा गिरः । १५इह सर्वं सदेवाग्र आसीदिति विनिश्चयात् ॥४३॥ सत्तावाचिनि बीजेऽस्मिन् ¹⁶भाति मायान्तिमं जगत् । १७विलुप्तप्रत्ययाकार¹⁸मेवैतत् परिशिष्यते ॥४४॥ ततो ज्ञानक्रियासारा¹९ विद्येश्वरसदाशिवाः । शक्तिशूले²⁰ विलीयन्ते²¹ चतुर्दशकलात्मनि ॥४५॥ ऊर्ध्वाधः सृष्टिवपुषि सर्वं लीनमतः परम् । इत्थं परस्यां संवित्तो सर्वं संकुचितं क्रमात् ॥४६॥ अथ वाङ्मनसातीते यत्र क्वापि निरञ्जने । षट्त्रिंशत्तत्त्वलहरीकलहातीतगोचरे ॥ विश्वात्मनि महा²²मन्त्रस्वभावे²३ सा विलीयते ॥४७॥ १. मसो स्वान्तश्चरन्तो स्थितिहेतवे-मु., मसोऽचोक्ताश्चरन्ति तिथिहेतवः-स. अक. घ. । २. श्चरन्तः-म. । ३. यथा-मु. ल. । ४. स्यादौ-ल., स्यादिकला स्मृता- स अक., सर्गः स्यात् कुलशास्त्रतः-अख. ग. म. । ५. धेत्थं-अख. ग. म. । ६. प्रवृत्त- मु. स. अक., प्रवृत्ति-अघ. । ७. वपुषश्चास्य जन्मनि-अख. ग. म. । ८. मेतस्य- अघ. म. । ९. सारमेतत्-अक., सारं यत्परमं-अघ. । १०. परापरम्-अख. ग. म. । ११. तथास्मिन्-स. अक., तथा संनिहितं-अख. ग. घ. म. । १२. मार्णं-अक. ख. ग. ल. म., माणेमेवेदं कारणान्नातिरिच्यते-अघ. । १३. मृदादि-स. अक. । १४. पणेः-अख. ग. म. । १५. इदं सर्वं सदेवासीदग्रे इ-मु., सदेव सोम्येदमग्र-स. अक. । १६. सादि- अक. ल., मातृ-म. । १७. अलुप्त-स. अक., विशद-अख. म. । १८. मेतत् स-मु., रं परैश्च-अघ., रवृत्तं न-म. । १९. धारा-अख. ग. म. । २०. त्रिशूले ली-मु. म., स्थूले वि-अक. । २१. लिम्पन्ते-अख. ग. । २२. मन्त्रे-मु. स., तन्त्रे-ल. । २३. स्वरूपोऽस्य- अघ. । Courtesy: Shri Tarun Dwivedi, Surviving Son of Late Vraj Vallabh Dwivediji (15 Jul 1926 - 17 Feb 2012)

योगिनी हृदयम् (अमृतानन्दनाथ विमर्शिनी एवं पं. व्रजवल्लभ द्विवेदी सविस्तार सटीक) · पृष्ठ 449, कुल 485 में से · BharatKosha