भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 105, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 105

छत्रयुक्तिः । १५ अर्कवड्डा(द्धा)भिधो विप्रश्चटवड्ड(ष्ठ)स्तु क्षत्रियः । तपवड्डस्तु वैश्यः स्याद् यशोवड्डस्तु शूद्रकः ॥ ४६९ ॥ अन्यानि यानि छत्राणि विविधाकृति-मन्ति च । तानि चित्त-प्रमोदार्थं कार्याणि त्रितयन्विदम् ॥ ४७० ॥ नवदण्डोऽभिषेके च वारे कनक-दण्डयोः । मनोहरं प्रयाणेषु छत्रो (१०) भोजस्य सम्मतम् ॥ ४७१ ॥ मनोहरं स्त्रो(११)कनक-दण्डञ्च नवदण्डकम् । छत्रञ्च त्रिविधं ज्ञेयं त्रिविधानां मही-भुजाम् ॥ ४७२ ॥ मण्डलेशश्च राजा च चक्रवर्त्ती च यो नृपः । आनूपो जाङ्गलो देशः साधारण-गतिस्त्रिधा ॥ देशत्रयाधीश्वराणां छत्र-त्रयमिदं क्रमात् ॥ ४७३ ॥ दण्डनियमस्तु अन्यत्र । चम्पकः पनसः शालः श्रीफलश्चन्दनस्तथा । बकुलश्चाथ निम्बश्च वज्रवारण (१२) मित्यपि * ॥ ४७४ ॥ ( १० ) 'छत्रं' इति (ख) पुस्तक पाठः । ( ११ ) स्त्रो (न्तु) कनक इति (ख) पुस्तक पाठः । ( १२ ) वज्रधारणम् इति (ख) पुस्तकः पाठः ।

  • अत्र वज्र वारका बहवः सन्ति-यथा, - वृक्षेषु मुण्डो, नारीकेलः, तुलसी च एतान् गृहोपरि आर्थ्याः प्राञ्चोरचितवन्तः । लोहे- अयस्कान्त-चुम्बकौ त्रिशूलाकारौ । एवं मन्त्रेषु- “मुनेः कल्याण-मित्रस्य जैमिनेश्चापि कीर्त्तनात् । विद्युदग्नि-भयं नस्यात् स्थापिते च गृहोदरे ॥” “प्रचण्ड पवनाघाते निर्घोषेऽशनितेऽपि च । वि-पठेत् जैमिनिन्तत्र प्राङ्मुखो वा ह्युदङ्मुखः ॥’’ “जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च । पुलहः क्रतु पुलस्त्यो षड़ेते वज्रवारकाः ॥” “रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् । ये स्मरन्ति विरूपाक्षं न तेषां विद्युती भयम् ।” इति योगविज्ञानशास्त्रे । ६