युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 196, कुल 278 में से
संदर्भ में पढ़ें१५९ युक्तिकल्पतरौ— भूमिः स्नु हो(८)दलसमा अङ्गं तत्कण्टकोपमम् । धारा तीक्ष्णा रव(वर)स्तोक्ष्णो लघुमानं खरस्पृशा ॥ ९५ ॥ सुधाङ्गः खड्ग इत्येष तत्क्षते दाहहृद्भ्रमाः । मुखाक्षि कर्णनासानां दाहः पाकश्च जायते ॥ ९६ ॥ अयं यदि च सर्पाणां फणासूपरिविश्यते । फणाविदारमाप्नोति सर्पो लोटयते शिरः । अस्य धावन तोयेन कुष्ठरोगविनाशनम् ॥ ९७ ॥ कर्कन्धुदलपृष्ठाभा भूमिरङ्गन्तु तत्समम् । कर्कन्धुवज्रं जानीयात् तत्क्षते दाहनाशनम् ॥ ९८ ॥ एष खड्गाधमस्त्याज्यो जेतव्या यदि विद्दिषः । अङ्गं वकुलपुष्पाभं भूमिस्तत्फलसन्निभा ॥ ९९ ॥ वकुलाङ्गमिदं पूज्यं शाणे सुरभिगन्धवत् । तन्नास्ति जगतीमध्ये यदनेन न साध्यते ॥ १०० ॥ अङ्गं सन्मिश्रितं यस्मिन्न किञ्चिद्गतमोच्यते (६) । सर्वेषां दर्शनं वापि तीक्ष्णाधारः(रा) खरस्वरः ॥ १ ॥ एष काञ्जिकवज्रः स्याद्यत्नादेवोपलभ्यते । नैनं प्राप्यापि वर्द्धन्ते शेषाश्चिद्यादयोऽपि च ॥ २ ॥ भूमिः कृष्णा निरङ्गा चेद्धारा तीक्ष्णा दृढापि च । आघातं सहते घोरं रक्तं स्पर्शेन यो विशेत् ॥ ३ ॥ शाणेन वह्निं वमति ध्रुवं वाप्यति घर्षणात् । महिषाङ्गः स वै खड्गः पृथिव्यां नाति दुर्लभः ॥ ४ ॥ (८) स्थूला इति (क) पुस्तक पाठः । (९) भिद्यते इति (ख) पुस्तक पाठः ।