युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
DevanagariHindipublished278 पृष्ठ
पृष्ठ 199, कुल 278 में से
संदर्भ में पढ़ेंपृष्ठ 199
अस्त्रयुक्तिः । १५८ खड्गं ब्राह्मणजातिं तं प्राह नागार्जुनो मुनिः । अस्य क्षते भवेच्छोथो घोरः सर्व्वाङ्गगोचरः ॥ २० ॥ मूर्च्छा पिपासा दाहश्च ज्वरो मृत्युश्च जायते । अघृष्टं विफलाकल्कमर्द्दराविन्दिवोषितम् ॥ २१ ॥ मलिनत्वं न सम्धत्ते निर्मलं कुरुते परम् । तरुणादित्यकिरण-स्पर्शादेव तृणे स्थितः ॥ २२ ॥ दहेत् सर्व्वं न तु करं पुरुषस्य हि धारिणः । गायत्र्युच्चारमात्रेण खरतां व्रजति स्फुटम् ॥ २३ ॥ एष खड्गवरः सर्व्वमरिष्टं नाशयेद्ध्रुवम् । अस्य प्रसादात् पुरुष स्त्रिलोकमपि साधयेत् ॥ २४ ॥ तस्मादेव मनुष्याणां सुलभो नहि भूतले । दृश्यन्ते प्रायशः स्वर्गे ( १५ ) कुशद्वीपे हिमालये ॥ २५ ॥ ब्राह्मणजातिः । धूम्रवर्णं महासारं तीक्ष्णधार