युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 236, कुल 278 में से
संदर्भ में पढ़ें१८६ युक्तिकल्पतरौ— अन्यत्रतु। सात्त्विका राजसाश्चेति तामसाश्चेति ते हयाः ॥ ४१ ॥ ये शुद्धवर्णा भृशवेगयुक्ता अश्रान्ति-भाजो वहुभोगिनश्च । अक्रोधशीलाः समरेऽतिरुष्टास्ते सात्त्विका भूप तुरङ्गमाः स्युः ॥४२॥ ये रक्तवर्णा गुरुवेगरोषाः कषातिघातं (१) न हि ये सहन्ते । येऽमी वलाढ्याः खलु दीर्घदेहास्ते राजसा भूप तुरङ्गमाः स्युः ॥४३॥ ये कृष्णवर्णास्तनुरोषवेगा अल्पाशिनो लक्षणलक्षिताश्च । ये दुर्बलाः सर्व्वगुणैर्विहीनास्ते तामसा भूप तुरङ्गमाऽधमाः ॥४४॥ द्वयोर्लक्षण सम्बन्धात् द्विगुणो वाजिमध्यमः । त्रयाणां गुणसम्बन्धात् त्रिगुणो वाजिनिन्दितः ॥ ४५ ॥ पराशर संहितायान्तु,— पृथिवि-वायुतेजः खैः पञ्चभिस्तुरगाश्रितैः । उल्लक्षणैः पञ्चधा भेदाः पराशरमता यथा ॥ ४६ ॥ ये स्थूलाः श्रमसहदेहरूपभाज- श्चाक्रान्ता बहुतर भोजनाश्च दीर्घाः । अक्रुद्धाः समरगतास्तु रोषभाजो ; भौमास्ते घनगुरुघर्घरस्वरास्तु ॥ ४७ ॥ ये श्लथाङ्गास्तनुवलाः श्रमसह कलेवराः । अक्रोधवेगाः स स्वप्ना (ङ्गा) आप्यास्ते तुरगाधमाः ॥ ४८ ॥ ये वातवेग-प्रतिमोग्रवेगाः शुष्का भृशं दीर्घकलेवराश्च । अश्रान्तिभाजो वहुदूरगाश्च ते वायवा वाजिवराः प्रदिष्टाः ॥ ४६ ॥ ये क्रोधशीला भृशवेगयुक्ताः, मुक्ता दिनात् क्रोशशतं व्रजन्ति।
(१) कलाभिघातं इति (क) पुस्तक पाठः ।