युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 249, कुल 278 में से
संदर्भ में पढ़ेंवृषयुक्तिः । २०९ अथ वृषभदोषाः । व्यङ्गो विवर्णो विषमः श्वित्री धूम्रश्चल खरः । एते सप्त महादोषा वृषभाणामुदीरिताः ॥ ६० ॥ विषाणौ विषमौ यस्य खुराश्च विषमास्तथा । नेत्रप्रा(क्रा)न्तेऽथ वा गात्रे पञ्जरे वैकृतं भवेत् ॥ ६१ ॥ व्यङ्ग इत्येष कथितो धनधान्य-विनाशकः । पूर्व्वार्द्धमन्यवर्णन्तु परार्द्धञ्चान्यवर्णकम् ॥ ६२ ॥ पृष्ठं क्रोडो विवर्णो वा विवर्णः कुलनाशनः । परार्द्धमुन्नतं यस्य पूर्व्वार्द्धञ्चाति नीचकम् ॥ ६३ ॥ गच्छतश्चरणौ लग्नौ शब्दायते खरखरः (१) । विषमो नाम वृषभः सम्पत्तिचयकारकः ॥ ६४ ॥ हिमकुन्देन्दुसङ्गाशा गात्रेषु लोमविन्दवः । श्वित्री नाम महादोषो दूरतस्तं परित्यजेत् ॥ ६५ ॥ शृङ्गाग्रे दौपिकाकारं ज्वलते केकरे दृशौ । कपिलः पुच्छभागश्चेत् स धूम्रो मृत्युमावहेत् ॥ ६६ ॥ दन्त शृङ्गखुरादीनां यद्येकोऽपि चलेत् स्वयम् । मुष्को वा (२) चलते यस्य स चलः कुलनाशनः ॥ ६७ ॥ आवर्त्ताः शुक्तयो रेखा विषमाश्च विसंस्थिताः । न्यूनाधिकाः पञ्जरास्तु खुरास्तु विषमास्तथा ॥ ६८ ॥ गुदान्मेढ्रान्तरे यावद्रेखा व्यक्तेव दृश्यते । विस्तृते विषमे घोणे(रे) जिह्वा चैवा(व)सिता भवेत् ॥ ६९ ॥ स खरो दूरतस्त्याज्यो भर्तुः सर्व्वार्थ-नाशनः । स्वल्पता दीर्घरोगत्वं क्षोणताभारवाहिता ॥ ७० ॥ (१) खरः खरः इति (क) पुस्तक पाठः । (२) मुष्कोरा इति (ख) पुस्तक पाठः । २७