युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 26, कुल 278 में से
संदर्भ में पढ़ें( ११० ) र्भोऽयं यथामति परिशोधितम् । परं यदि प्रमादात् स्खलितं क्वापि वाऽशुद्धं तिष्ठेत्तदा सुधीजनैः कृपया क्षन्तव्यम् । यतः— ‘प्रमादात् स्खलनं जातु भवत्येव न संशयः’ । इति शम् । शकाब्दाः १८३६ । ईं १९१७ । श्रावण कृष्ण चतुर्थी । कलिकाता, श्रीईश्वरचन्द्र शर्मा-शास्त्री । ९० नं सीतारामघोष वर्त्मस्थः दर्शनविद्यालयः । एतद् ग्रन्थस्यादर्शपुस्तकानां नामानि कृतज्ञतया प्रकाश्यन्ते । १ । (क) संज्ञकं पुस्तकं गभर्णमेण्टसंस्कृतविद्यामन्दिर- पुस्तकालयस्थं, महामहोपाध्याय डक्तार श्रीयुक्त सतीश चन्द्र विद्या- भूषण एम्, ए ; पि, एइच्, डि ; एम्, आर्, अस्, महाशयैः प्रदत्तम् । अर्धशुद्धप्रायं, वङ्गाक्षरैर्लिखितम् । सम्पूर्णं, अन्तरालुटितम् । शकनरपतेरतीताब्दाः १७३२ इति प्रतिलिपिकालः । २ । (ख) संज्ञकं पुस्तकं वङ्गाक्षरैर्लिखितम् । अर्धशुद्धप्रायम्, अत्र लेखादि समयो नास्ति । सम्पूर्णं मध्ये किञ्चित् खण्डितम् । डक्तार राजराजेन्द्रलाल मित्रेण इण्डोआरियान्स्-नाम ख्यातग्रन्थे यस्य विवरणं प्रदत्तम्, तस्यैका प्राचीन-प्रतिलिपिर्मया लब्धा व्यवहृता च सा । ३ । (ग) संज्ञकं पुस्तकं प्रयागस्थ महामहोपाध्याय धार्मिक- प्रवर श्रीयुक्त आदित्यराम भट्टाचार्य्य एम्, ए, महाभागैः प्रदत्तम्, वङ्गाक्षरैर्लिखितम् । अशुद्धिवहुलम् । सम्पूर्णमन्तरात्रुटितम् खण्डि- तञ्च । अत्र लेखादि-समयो नास्ति ।