युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 43, कुल 278 में से
संदर्भ में पढ़ेंनौतियुक्तिः । ५ अप्रमत्तानलुब्धांश्च विरोधांश्चैव राजसु । राज्ञामाज्ञानुरूपेण तत्तत्कर्म्म प्रकुर्व्वताम् ॥ २८ ॥ प्रसादञ्च महीपालः कुर्या त्कार्यानुरूपकम् । सर्व्वे सेवितुमिच्छन्ति महीपालं धनाश्रया ॥ २९ ॥ स्वत(४)स्ते तु महीपालैः परीक्ष्यास्तव कोविदैः * । कोषो महीपते र्जीवो न तु प्राणाः कथञ्चन ॥ ३० ॥ द्रव्यं हि राजा भूपस्य नशरीरमिति स्थितिः । धर्म्महेतोः सुखार्थाय भृत्यानां भरणाय च ॥ ३१ ॥ आपदर्थञ्च संरक्ष्यः कोषः कोषवता सदा । धनात् कुलं प्रभवति धनाद्धर्म्मः प्रवर्त्तते (५) ॥ ३२ ॥ नाधनस्य भवेद्धर्म्मः कामांश्चैव कथञ्चन । अधर्म्मान्न धनं कुर्य्यात्तद्धनं गृह्यते परैः ॥ ३३ ॥ स्वयं पापस्य पात्रं स्यात् सिंहो हस्तिवधादिव । तादात्मिको मूलहरः कदर्य्य स्त्रिविधोऽर्द्धकः ? ॥ ३४ ॥ उत्पन्नार्थ-व्ययकरो यो भविष्यदनाशया । स तादात्मिक आख्यातः कल्याणो तस्य नायतः ॥ ३५ ॥ यः पित्र्यार्ज्जितं वित्त मन्यायेन तु भक्षयेत् । स मूलहर आख्यात स्तदुदर्कोऽपि चाशुभः ॥ ३६ ॥ ( ४ ) सुतास्ते तु इति (ख) पुस्तक पाठः । ( ५ ) प्रवर्द्धते इति (ख) पुस्तक पाठः ।
- धनलिप्सया सर्व्वे साधवो दुर्ज्जना वा सुधियो वा महीपालं आश्रयन्ति, परं राज्ञो- हि तेषां स्वतः सचिवेन, विदुषा वा परीक्षणमुचितम् । विना परीक्षया सुजन-दुर्ज्जन- निश्चये राज्ञोऽनिष्टञ्च स्यादिति ।