युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 51, कुल 278 में से
संदर्भ में पढ़ेंनीतिशक्तिः । १३ अन्यैश्च (२७) विजिगीषोश्च विग्रहे हीयमानयोः । सन्धाय यदवस्थानं सन्धा (२८) यासनमुच्यते ॥ ८७ ॥ उदासीने मध्यमे वा समाने प्रतिशङ्कया । एकीभूय व्यवस्थानं सम्भूयासनमुच्यते ॥ ८८ ॥ सर्व्defaultषां प्रीतिजननं निजराष्ट्रस्य रक्षणम् । एतत् प्रीत्यासनं नाम सर्व्वासन-महत्तरम् ॥ ८९ ॥ अथ द्वैधम् । वलिनोर्द्विषतोर्मध्ये वाचा मौनं (२९) समर्पयेत् । द्वैधीभावेन वर्त्तेत * काकाक्षिवदलक्षितः ॥ ९० ॥ यापयेत्क्रमास्थाय सन्निकृष्टतरं तयोः । उभयोरपि संयापे सेवेत बलवत्तरम् ॥ ९१ ॥ अथाश्रयः । अस्थितौ यदि कल्याणं भवेत् संश्रयणन्तथा । भवति श्रेयसे राज्ञां विपरीतं न कर्हिचित् ॥ ९२ ॥ ( २७ ) अन्यस्य इति (क) पुस्तक पाठः । —अयं पाठः समीचीनः । ( २८ ) सन्ध आसनं इति (ख) पुस्तक पाठः । ( २९ ) वाचात्मानं इति (ख) पुस्तक पाठः ।
- काकाक्षिन्यायः—यथा काकस्यैकमेव नेत्रमुभयोश्चक्षुषोः कार्य्यं सम्पादयति किम्बा कैकर इव झटित्येव लक्ष्यालक्ष्यं उभयं पश्यति तद्वत् द्वैधीभावे राज्ञाऽवस्थातव्यम् ।