भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 90, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 90

अभिज्ञानशाकुन्तलम्

आपरितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ २ ॥

नटी—अज्ज ! एवं णेदं । अणन्तरकरणिज्जं दाव अज्जो आणवेदु । [ आर्य ! एवं न्विदम् । अनन्तरकरणीयं तावदार्य आज्ञापयतु । ]

सूत्रधारः—आर्ये ! ^२किमन्यदस्याः परिषदः श्रुतिप्रमोदहेतोर्गीतात् करणीयमस्ति ?


श्रेष्ठे । प्रयोगस्यसाधुत्वे सुशिक्षितत्त्वं न प्रमाणम्, अपितु विदुषां सन्तोष एवेति कथयामि-निर्दिशामि, भूतार्थं = परमार्थम्, त्वं सत्यं न वेत्सि, इदानीमाकर्णयेति ।

अन्वयः—विदुषां आपरितोषात् प्रयोगविज्ञानं साधु न मन्ये बलवदपि शिक्षितानां चेतः आत्मनि अप्रत्ययम् ( भवति ) ।

आपरितोषादिति—विदुषां प्रयोगरहस्यवेदिनां सामाजिकानाम्, आपरितोषात् = सन्तुष्टिपर्यन्तम्, विशिष्टज्ञानं प्रयोगस्य विज्ञानं प्रयोगविज्ञानं=अभिनयकलाकौशलम्, साधु न मन्ये = अहं शोभनं न स्वीकरोमि त्वं साधु मन्यसे चेत् तन्न युक्तमिति भावः । साधुमननाभावे हेतुमाहुः—बलवदिति । बलवत् = दृढतरं शिक्षितानां = कृताभ्यासानामपि चेतः हृदयं आत्मनि = आत्मप्रयोगे अप्रत्ययं = अविश्वासं भवति । सामाजिकानां विदुषां परितोष एव प्रयोगस्य साधुत्वे विश्वासं जनयति । तथा च सुशिक्षितस्यापि नटस्यात्मनः प्रयोगे सामाजिकपरितोषमन्तरा विश्वासो न भवतीति भावः । तच्चोक्तमभियुक्तैः—प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः । अत्रार्थान्तरन्यासोऽलङ्कारः, आर्याच्छन्दश्च ॥ २ ॥

नटी—नटी = सूत्रधारपत्नी, विनयः = नम्रत्वं तेन सह वर्तते इति सविनयम् । एवमेतत् = यथा भवानाह तथैव तत्, सत्यमिदम् । अनन्तरं करणीयम् अनन्तरकरणीयम् =, अग्रे यद् विधेयं तदार्यः आदिशतु ।

सूत्रधारः—आर्ये ! अस्याः = प्रस्तुताः परिषदः = सभायाः, सामाजिकानां श्रुतिप्रमोदहेतोः = श्रुत्योः = कर्णयोः प्रमोदः तस्य हेतुः कारणमिति श्रुतिप्रमोदहेतुः तस्मात् श्रुतिप्रमोदहेतोः = कर्णानन्ददायिनः, गीतात् = गायनात् अन्यत् = अतिरिक्तं, किं=करणीयमस्ति न किमपि करणीयमस्तीति भावः ।


विद्वानों को जबतक सन्तोष न हो जाय, तबतक मैं अभिनय के प्रयोग की कुशलता ठीक नहीं समझता, क्योंकि सुशिक्षित पात्रों के भी चित्त में अपने विषय में सन्देह ही बना रहता है ॥ २ ॥

विशेष—विद्वानों के सन्तोष को अभिनय की कसौटी माना गया है । यों तो अपना काम सभी को अच्छा लगता है तथा प्रत्येक व्यक्ति अपने को योग्य समझता है । जब तक कार्य समुचित रूप से सम्पन्न न हो जाय, तब तक आत्मविश्वास नहीं होता ।

नटी—( नम्रतापूर्वक ) आर्य ! आप बिलकुल ठीक कहते हैं । अब आज्ञा दीजिए कि अब इसके बाद मुझे क्या करना चाहिए ।

सूत्रधार—प्रिये ! इस सभा के अनुरञ्जन=मनोविनोद के लिये श्रुतिमधुर गीत से बढ़कर इस समय क्या कार्य हो सकता है ? अतः तुम कोई मधुर गाना गाओ ।


पाठा०—१. एवमिदम्, एवमेव तत्, एवमेतत् । २. किमन्यदस्याः परिषदः श्रुतिप्रसादनतः ।