आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 177, कुल 292 में से
संदर्भ में पढ़ेंषष्ठः खण्डः] अनाविलोपेसम् । १२५
वीड्वङ्गो हि भूया इत्येतामृचं च ॥ ५ ॥
एतयान्यान्यपि वानस्पत्यानि ॥ ६ ॥
रथसंनिधानादन्यान्यपि तज्जातीयानि वानस्पत्यानि शकटादीन्येतयाभिमृशेत् ॥ ६ ॥
स्थिरौ गावौ भवतां वीळु रक्ष इति रथाङ्गमभिमृशेत्¹ ॥ ७ ॥
स्थिरौ गावावित्येतस्यामृचि यद्यद् रथाङ्गं दृष्टं तत्तदभिमृशेत् तेन तेन ऋगंशेन² ॥ ७ ॥
सुत्रामाणं पृथिवीं द्यामनेहसमिति नावम् ॥ ८ ॥
आरोहेदिति व्यवहितमपि संबध्यते ³मन्त्रलिङ्गात्, नाभिमृशेत् । नाव आरोहणे प्राप्तेऽनयर्चाऽरोहेत् ॥ ८ ॥
नवरथेन यशस्विनं वृक्षं ह्रदं वाऽविदासिनं प्रदक्षिणं कृत्वा फलवतीः शाखा आहरेत् ॥ ९ ॥
नवरथे त्वयं विशेषः। पूर्ववदारुह्य तेन यशस्विनं प्रसिद्धं वृक्षं ह्रदं वाऽविदासिनमशोष्यं प्रदक्षिणं कृत्वा फलवतीः शाखा आहरेत् ॥ ९ ॥
अन्यद्वा कौटुम्बम् ॥ १० ॥
कौटुम्बं कुटुम्बस्योपकारकमन्यद् द्रव्यं वाहरेत् इति रथारोहणम् ॥ १० ॥
१ 'तृ ते' ख. पाठः.
२. 'ते' ग. पाठः.
३. 'तत्प्रधानस्त्वान्ना' घ. पाठः.