आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 180, कुल 292 में से
संदर्भ में पढ़ें| १२८ | आश्वलायनगृह्यसूत्रम् | [द्वितीयोऽध्यायः |
|---|
अपामार्गः शाकस्तिल्वकः परिव्याध इति चैतानि ॥ ६ ॥
अपामार्गो वीरुद्विशेषः । शाकादयो वृक्षविशेषाः । अपामार्गादीनां पुंलिङ्गत्वाद् एतानीति वक्तव्ये नपुंसकनिर्देशाद् गम्यते अन्यान्यप्येवंजातीयकानि समूलानि परिखायोच्छासयेदिति ॥ ६ ॥
यत्र सर्वत्रापो मध्यं समेत्य प्रदक्षिणं शयनीयं परीत्य प्राच्यः स्यन्देरन्नप्रपतत्यः ॥ ७ ॥
यस्मिन् देशे आपो मध्यं समायन्ति समागच्छन्ति समेत्य च शयनीयदेशं प्रदक्षिणं परियन्ति परीत्य च प्राच्यः स्यन्देरन् प्राङ्मुखा गच्छेयुः अप्रपतत्यः नुमभावश्छान्दसः । एतदुक्तं भवति मध्यतो निम्नं प्राक्प्रवणं शयनस्थानं प्राच्यां दिशि गृहिण इति ॥ ७ ॥
तत् सर्वसमृद्धम् ॥ ८ ॥
तदेतदुक्तलक्षणं वास्तु सर्वसमृद्धं भवति ॥ ८ ॥
समवस्रवे भक्तशरणं कारयेत् ॥ ९ ॥
येन पथा आपः समवस्रवन्ति तस्मिन् समवस्रवे । प्राच्यां दिशीत्युक्तं भवति । तत्र भक्तशरणं महानसं कारयेत् ॥
बह्वन्नं ह भवति ॥ १० ॥
एवं कृतं भक्तगृहं बह्वन्नं भवति । हशब्दोऽभिमतत्वद्योतनार्थः ॥ १० ॥
दक्षिणाप्रवणे सभां मापयेत् साधूता ह भवति ॥
दक्षिणाप्रवणे देशे सभा मापयितव्या । सभेत्यास्थान-