भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 181, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 181

अष्टमः खण्डः] अनाविलोपेताम् । १२९

मुच्यते । एवं कृता सा सभा अद्यूता भवति । हशब्दः प्रशंसायाम् ॥ ११ ॥

एवं परमतेन प्रशस्य स्वमतेन निन्दति —

युवानस्तस्यां कितवाः कलहिनः प्रमायुका भवन्ति ॥ १२ ॥

कितवा द्यूतपराः अद्यूता ह भवतीत्युक्तत्वात् । प्रमायुका मर्त्तारः ॥ १२ ॥

यत्र सर्वत आपः प्रस्यन्देरन् सा स्वस्त्ययन्यद्यूता च ॥ १३ ॥

एवंविधे देशे कृता सभा स्वस्तिप्राप्तिनिमित्तभूता अद्यूता च भवति ॥ १३ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये सप्तमः खण्डः ।


अथाष्टमः खण्डः ।

अथैतैर्वास्तु परीक्षेत ॥ १ ॥

अथ एतैर्वक्ष्यमाणलक्षणैर्वास्तु परीक्षेत । पृथगधिकारः प्राधान्यख्यापनार्थः । तेनैतत्संभवे नान्यदादर्तव्यम् ॥

जानुमात्रं कतं खात्वा तैरेव पांसुभिः प्रतिपूरयेत् ॥ २ ॥

जानुप्रमाणं कतमवटं खात्वा ये उद्धताः पांसवस्तैरेव प्रतिपूरयेत् कतम् ॥ २ ॥

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित) · पृष्ठ 181, कुल 292 में से · BharatKosha