आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
DevanagariHindipublished292 पृष्ठ
पृष्ठ 182, कुल 292 में से
संदर्भ में पढ़ेंपृष्ठ 182
| १३० | आश्वलायनगृह्यसूत्रम् | [द्वितीयोऽध्यायः |
|---|
ततः किं—
अधिके प्रशस्तम् ॥ ३ ॥
कर्तपूरणादधिके तस्मिन् पांसुराशौ प्रशस्तं भद्रं भवति ॥ ३ ॥
समे वार्तम् ॥ ४ ॥
यदा पांसुराशिर्र्वटेन समो भवति न न्यूनो नातिरिक्तः तदा वार्तं निर्दोषं भवति नानर्थावहं न चाभ्युदयावहम् ॥ ४ ॥
न्यूने गर्हितम्¹ ॥ ५ ॥
स्पष्टम् ॥ ५ ॥
अथान्या परीक्षा—
अस्तमितेऽपां पूर्णं परिवासयेत् ॥ ६ ॥
जानुमात्रं कर्तं खात्वेति वर्तते । अस्तमित आदित्ये तमद्भिः पूरयेत् । तमपां पूर्णं परिवासयेद् ओदयात् ॥ ६ ॥
ततः किं—
सोदके प्रशस्तमार्द्रे वार्तं शुष्के गर्हितम् ॥ ७ ॥
सोदकं किञ्चिच्छिष्टोदकम् । अन्यत् स्पष्टम् ॥ ७ ॥
श्वेतं मधुरास्वादं सिकतोत्करं ब्राह्मणस्य ॥ ८ ॥
मधुरास्वादं मधुररसम् । सिकतोत्करं सिकताबहुलम् । एवंभूतं वास्तु ब्राह्मणस्य शुभम् ॥ ८ ॥
लोहितं क्षत्रियस्य ॥ ९ ॥
मधुरास्वादं सिकतोत्करमिति वर्तते ॥ ९ ॥
१. 'म् न्यूने पांसुराशौ गर्हितं भवति । अ' घ. पाठः