भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 129, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 129

दशमः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ७७

तपस्वी चाऽप्रमादी च ततः पापात्प्रमुच्यते ॥ ३४ ॥

अनु०—मनुष्य अपने दुष्कर्मों को याद करता हुआ नित्य पश्चात्ताप करे, तपस्वी बने, धर्मकार्यों में प्रमाद का त्याग करे तब वह अपने पापों से मुक्त होता है ॥ ३४ ॥

इत्थं शोचेत मनसा-अहो कष्टं मया कृतम्, धिग्मां कामचारमदीर्घदर्शिनम्, का मे गतिः ? का मे त्राणभूमिरिति, अत ऊर्ध्वमीदृशं कर्म न करिष्यामीति दुष्कृतान्यनुचिन्तयन् अनुस्मरन्नित्यर्थः । तपस्वी कृच्छ्रादिकृत् । अप्रमादी पापस्य कर्मणः पुनरसेविता । तस्माद्यौवनकृतात्पापात् प्रमुच्यते नैवत्कुर्यात् पुनरिति निवृत्त्या पूयते तत इति । तथा च वसिष्ठः— ख्यापनेनाऽनुतापेन तपसाऽध्ययनेन च । पापकृन्मुच्यते पापाद्दानाद्वाऽपि प्रमुच्यते इति ॥ ३४ ॥

स्थाविरे सुवृत्तस्य पुरुषस्य यौवने विभ्रमकृतानि पापानि दोषांशकल्पादन्ल्पतां न लभन्त इत्युक्तम्, तत्प्रसङ्गादिदमन्यदनाशङ्कनीयमुच्यते—

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । न तैरूच्छिष्टभावस्स्यात्तुल्यास्ते भूमिगैस्सहेति ॥ ३५ ॥

अनु०—जो व्यक्ति दूसरों को जल देकर आचमन कराता हो उसके पैरों को यदि जल की बूँदें (पृथ्वी पर गिरकर छिटक कर) स्पर्श करती हों तो उनसे किसी प्रकार की अशुद्धि नहीं होती, क्यों कि वे बूंदें पृथ्वी पर एकत्र जल के समान ही शुद्ध होती हैं ॥ ३५ ॥

इति बौधायनीये धर्मसूत्रे प्रथमप्रश्ने दशमः खण्डः ॥ १० ॥

भूमौ पतिताः पुनरुत्थाय बिन्दवः परानाचामयतः पादौ स्पृशन्ति चेत् ते पुरुषं नोच्छिष्टं कुर्वन्ति भूमिगैस्तुल्या इत्यभिधानादन्यत्राऽपि¹ भूमिगतजलमदोषमिति गम्यते । पादग्रहणादन्यत्रोच्छिष्टभावो भवत्येव ॥३५॥ १० ॥


पञ्चमाध्याये एकादशः खण्डः

सपिण्डेष्वादशाहम् ।

स्पर्शानिमित्ताशौचमभिधायाऽधुना तदभावेऽप्याशौचप्रतिपिपादयिषयाऽऽह—


१. अभूमिगतजलसंसर्गो दोष इति गम्यत इति ग० पु०