भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 131, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 131

एकादशः खण्डः ] प्रथमप्रश्ने पञ्चमोऽध्यायः ७९

भवति । तत्सन्ततिषु चोभयतोऽपि सप्तमे निवर्त्तते । सापिण्ड्यस्य संक्षेपोक्ति- रेषा, विस्तरस्तु वक्ष्यते 'अपि च प्रपितामहः' इत्यत्र । ननु त्रिपुरुषमेव सापि- ण्ड्यं सम्भाव्यते, पितृपितामहप्रपितामहानां पिण्डदानवचनात् । उच्यते— पित्रादिषु त्रिषु जीवत्सु येभ्यः पिता ददाति तेभ्यः पुत्रो ददातीति परेभ्यः त्रिभ्यः पिण्डदानं सम्भाव्यते, अत उपपद्यते सप्तमे निवृत्तिरिति ॥ २ ॥

साम्प्रतं म्रियमाणवयोवस्थाविशेषापेक्षयाऽऽशौचमाह— 'आसप्तमासादादन्तजननाद्धोदकोपस्पर्शनम् ॥ ३ ॥

अनु०—सातवां मास पूरा होने से पहले या दांतों के निकलने से पहले बच्चों की मृत्यु होने पर सपिण्डों को स्नान मात्र करना चाहिए ॥ ३ ॥

सप्तममासादर्वागादन्तजननाद्वा बालेषु मृतेषूदकोपस्पर्शनं स्नानमात्रमेव सपिण्डानाम् । यत्तु तस्मिन्नप्येकाहाशौचं तेन सहाऽस्य विकल्पः ॥ ३ ॥

किञ्च— पिण्डोदकक्रिया प्रेते नाऽत्रिवर्षे विधीयते । आदन्तजननाद्वाऽपि दहनं च न कारयेत् ॥ ४ ॥

अनु०—तीन वर्ष की अवस्था पूरी करने से पहले मृत अथवा दांत निकलने से पहले मृत बच्चे के लिए पिण्ड और उदक दान की क्रिया का विधान नहीं है । इसी प्रकार ऐसे मृत बच्चे के शव की दाहक्रिया भी न कराये ॥ ४ ॥

तृतीयवर्षमप्रविष्टस्याऽजातदन्तस्य वा पिण्डोदकक्रिया न कर्त्तव्या । दहनं च, अवध्योर्द्वयोः स्नेहापेक्षया विकल्पः ।

नाऽत्रिवर्षस्य कर्त्तव्या बान्धवैरुदकक्रिया । जातदन्तस्य वा कुर्यान्नाम्नि वाऽपि कृते सति ॥

तथा— नाऽस्य कार्योंऽग्निसंस्कारो नाऽपि कार्योदकक्रिया इति ॥ ४ ॥

स्त्रीषु मृतासु कथमित्याह— अप्रत्तासु च कन्यासु प्रत्तास्वेके ह कुर्वते । लोकसंग्रहणार्थं हि यदमन्त्रास्त्रियो मताः ॥ ५ ॥

अनु०—अविवाहिता कन्याओं के लिए भी पिण्डोदक दान की क्रिया न करे।


१. सपिण्डेष्वासप्तमासादादन्त इत्यादि सूत्रं पठितं ग, पुस्तके,