भारतकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 142, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 142

९० बौधायन-धर्मसूत्रम् [ रजस्वलाव्रतानि

ऋतुमत्यां च ॥ ३२ ॥

अनु०— रजस्वला स्त्री के स्पर्श पर भी उपर्युक्त नियम समझना चाहिये ॥३२॥
टि०— रजस्वला स्त्री के स्पर्श पर भी अनजान में स्पर्श का तथा जान बूझ कर स्पर्श के अनुसार अशुद्धिकाल का नियम समझना चाहिए।

ऋतुमती रजस्वला । तत्स्पर्शेऽपि अभिसन्ध्यनभिसन्धिकृतो विभागो ^१वेदितव्यः । चशब्दस्तत्स्पृष्टिन्यायानुकर्षणार्थः । आह च मनुः—

दिवाकीर्त्यमुदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ इति ॥

दिवाकीर्त्यश्चण्डालः । अत्राऽयं विशेषः—अबुद्धिपूर्वे संस्पर्शे द्वयोस्स्नानम् । बुद्धिपूर्वे तु त्रयाणामिति केचित् ॥ ३२ ॥

^२"यस्ततो जायते सोऽभिशस्त" इति व्याख्यातान्यस्यै व्रतानि ॥३३॥


१. भवेदिति ग. पु.
२. 'यस्ततो जायते सोऽभिशस्तो यामरण्ये तस्यै स्तेनो यां पराचीं तस्यै ह्रीतमुख्य-प्रगल्भो या स्नाति तस्या अप्सु मारुको याऽभ्यङ्क्ते तस्यै दुश्चर्माया प्रलिखते तस्यैखल-तिरपस्मरी याऽऽङ्क्ते तस्यै काणो या दतो धावते तस्यै श्यावदन या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्य क्लीबो या सृजति तस्या उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या शर्वेण पिबति तस्यै खर्वस्तिस्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेदश्मर्येण वा पात्रेण प्रजागैं गोपीथाय' ॥ तै. सं. २. १. इति तैत्तिरीय-संहितायां द्वितीयकाण्डे पञ्चमप्रपाठकेऽग्नीषोमीयपुरोडाशयागविधानार्थे वृत्रासुरवध-रूपोपाख्यानवर्णनाय प्रवृत्ता श्रुतिः ततः पूर्वं इन्द्रस्य वृत्रहनने प्रवृत्तिहेतुदिदर्श-यिषयाऽऽख्यायिकां प्रदर्शयति । सा चेत्थम्—विश्वरूपो नाम त्वष्टुः पुत्रो देवानां पुरोहित आसीत् । सोऽसुराणां भागिनेयः । अतस्स सर्वेषु कर्मसु प्रत्यक्षेण देवानां हविर्दापयन् परोक्षतया रहस्यसुरेभ्योऽपि स्वमातुलेभ्यो दापयामास । तदिन्द्रो विज्ञाय तस्य शिरांस्यच्छेद । तस्य च ब्राह्मणत्वेन समनन्तरमेवेन्द्रं ब्रह्महत्याऽऽविवेश । तेन चाऽत्यन्तं बिभ्यदिन्द्रः स्वीयां ब्रह्महत्यां परिहर्तुकामस्तां त्रिधा विभज्यैकं तृतीयांशं पृथिव्यामाधातुमैच्छत् । साऽपि संवत्सरादर्वाक् स्वखातपरिपूरणं प्रतिवरं ततः प्राप्य तं तृतीयांशं स्वीचकार । स एवोषरं स्थानमभवत् ।
एवं वृक्षा अपि संवत्सरादर्वाक् स्वेषां च्छिन्नप्रतिरोहणं प्रतिवरं लब्ध्वा ब्रह्म-हत्यांशं प्रत्यगृह्णन् । स निर्यासरूपेण परिणमत् ।
तथा स्त्रियोऽपि यावत्प्रसूति पुरुषसंगसहिष्णुतारूपं प्रतिवरं ततो लब्ध्वा ब्रह्म-हत्यांशं स्वीचक्रुः । स एव तासां मासिकं रजस्तमभूत् । यतस्तद् ब्रह्महत्यारूपम्, अतो

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद) · पृष्ठ 142, कुल 486 में से · BharatKosha