बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 83, कुल 486 में से
संदर्भ में पढ़ेंचतुर्थः खण्डः ] प्रथमप्रश्ने द्वितीयोऽध्यायः ३१
स्तवाऽवसरः यामेव रात्रि समिधं नाऽऽहराता इति । लिङर्थे लेट्भवति । समिदाहरणमग्नीन्धनम् । तच्च भिक्षाचरणवेदाध्ययनगुरुशुश्रूषादीनामपि प्रदर्शनार्थम् ॥ ४ ॥
उपसंहरति—
तस्माद् ब्रह्मचारी यां रात्रिं समिधं नाऽऽहरति आयुष ^१एव तामवदाय वसति ॥ ५ ॥
अनु०—अतएव ब्रह्मचारी जिस रात्रि को समिदाहरण कर्म नहीं करता उस रात्रि को अपनी आयु से काटकर निकाल देता है ॥ ५ ॥
आयुषः खण्डमिति शेषः । द्वितीयार्थे वा षष्ठी । यथा^२ 'द्विरैन्द्रवायवस्य भक्षयति' इति ॥ ५ ॥
अथाऽग्नीन्धनादिचतुष्टयमपि विदधाति—
तस्माद् ब्रह्मचारी समिधमाहरेन्नेदायुषोऽवदाय वसानेति ॥६॥
अनु०—अतएव ब्रह्मचारी समिध अग्नि के ऊपर रखकर अग्नीन्धन करे नहीं तो कहीं ऐसा न हो कि वह अपनी आयु ही कम करते हुए रात्रि बिताने लगे ॥६॥
नेत्येष इद्दित्येतेन सम्प्रयुज्यते परिभवे गम्यमाने । यथा—'नेन्मे वाक्प्राणै-रनुषक्ता सत्' इति । आयुषोऽवदाय न वसानेति परिभवेनाऽग्नीन्धनादि-चतुष्टयं कुर्यादित्यर्थः ॥ ६ ॥
अथ दीर्घसत्रसंस्तवेन ब्रह्मचर्यप्रशंसा—
दीर्घसत्रं ह वा एष उपैति यो ब्रह्मचर्यमुपैति ॥ ७ ॥
अनु०—जो ब्रह्मचर्य ग्रहण करता है वह एक दीर्घ सत्र ही आरम्भ करता है ॥ ७ ॥
दीर्घसत्रं^३ शाक्यानामयनादि ॥ ७ ॥
१. आयुष एतामवदाय, इति ग. पु.
२. ज्योतिष्टोमे— ऐन्द्रवायवनामकः कश्चन ग्रहोऽस्ति । स, इन्द्रवायुभ्यां गृह्यते हूयते च। सर्वेषामपि ग्रहाणां च होमानन्तरं 'सदसि भक्षयन्ति' इत्यनेन भक्षो विहितः । भक्षणं च सकृदेव । विशेषाश्रवणात् । ऐन्द्रवायवे तु द्विर्भक्षणमनेन वचनेन विधीयते । तत्र ऐन्द्रवायवमिति द्वितीयस्थाने ऐन्द्रवायवस्येति षष्ठी यथा तथेत्यर्थः ।
३. तत्र षट्त्रिंशत्संवत्सरानुष्ठेयः शाक्याना (क्त्याना) मयनं नाम सत्रविशेषः । (अनेकदिनसाध्यः सोमयागो द्विविधस्सत्रात्मकोऽहीनात्मकश्चेति । तत्र त्रयोदशदिन-प्रभृति सहस्रसंवत्सरपर्यन्तकालसाध्यस्सत्रात्मकः । द्विरात्रप्रभृति एकादशरात्र-पर्यन्ताहर्गणसाध्योऽहीनः ) तत्र प्रथममहः प्रायणीयं अन्तिममुदयनीयमित्युच्यते । ते