बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 87, कुल 486 में से
संदर्भ में पढ़ेंपञ्चमः खण्डः ] प्रथमप्रश्ने तृतीयोऽध्यायः ३५
चत्वार एवाऽऽश्रमधर्मास्सूत्रकारैस्समाम्नाताः, न च स्नातको नाम तेषां मध्ये कश्चिदाश्रमी विद्यते । आचार्येणाऽप्युक्तम्—'यत्र यत्र कामयते तदेतीत्ये-तत्समावर्तनम्' इति । एवं ब्रुवता समावर्तनानन्तरमाश्रमप्राप्तिरेव दर्शिता । नैष दोषः—भार्याऽधिगमने यतमानस्याऽपि कदाचिद्भार्याग्रहणं न सम्भाव्येत, परचित्ताधीनत्वात्तस्य । तस्यामवस्थायामिमे वक्ष्यमाणा धर्मा वेदितव्याः । किञ्च—यावद्वेदस्वीकरणं ब्रह्मचारिणो नियमानुपालनं, अत ऊर्ध्वं धर्मजिज्ञासा-ऽवस्थायां स्नातकधर्मावसरः । तस्माच्चोर्ध्वं दारसङ्ग्रही इत्यविरोधः¹ । आहुश्च न्यायविदः—'अस्नानादिनियमपर्यवसानं वेदाध्ययनसमकालमाहुः' इति ।
तथा—
तस्माद् गुरुकुले तिष्ठन् मधुमांसाद्यवर्जयन् ।
जिज्ञासेताऽविरुद्धत्वाद्वर्ममित्यवगम्यते ॥ इति ।
सोऽयं स्नातकः—
²अन्तर्वास्युत्तरीयवान् ॥ २ ॥
अनु०—अन्तर्वास (नीचे का वस्त्र, अधोवस्त्र) और उत्तरीय धारण करे ॥२॥
स्यादिति शेषः । अन्तर्वासः कटिसूत्रम् । तद्वानन्तर्वासी स चोत्तरीयवान् स्यादित्यर्थः ॥ २ ॥
वैणवं दण्डं धारयेत् ॥ २ ॥
अनु०—बाँस का दण्ड धारण करे ॥ ३ ॥
अङ्गुष्ठप्रमाणा ³मूर्धपरिमता यष्टिर्दण्डः ॥ ३ ॥
सोदकं च कमण्डलुम् ॥ ४ ॥
अनु०—जल से युक्त कमण्डलु धारण करे ॥ ४ ॥
धारयेदित्यनुवर्त्तते ॥ ४ ॥
द्वियज्ञोपवीती ॥ ५ ॥
अनु०—दो यज्ञोपवीत पहने ॥ ५ ॥
स्यादिति शेषः । द्वे यज्ञोपवीते अस्येति विग्रहः ॥ ५ ॥
१. विवाहानन्तरमपि स्नातकत्वस्याऽनपायात् एतेषां धर्माणां प्राप्तिरस्त्येवेति साम्प्रदायिकाः ॥
२. 'अन्तर्वास उत्तरीयम्' इति मूलपुस्तकेषु ।
३. मुखसंमिता. इति. ग, पु. ।