भारतकोश
चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

Charaka Samhita Part 1 with Hindi Translation

महर्षि चरक व अग्निवेश द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished639 पृष्ठ

पृष्ठ 360, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 360

३४२ चरकसंहिता [ अ० २७ कषायविशदत्वाच्च सौगन्ध्याच्च रुचिप्रदम् ॥ १४२ ॥ अवदंशक्षमं रूक्षं वातलं लवलीफलं । नीपं सभागकं पीलु तृणशून्यं१ विकङ्कतम् ॥ १४३ ॥ प्राचीनामलकं चैव दोषघ्नं गरहारि च । ऐङ्गुदं तिक्तमधुरं स्निग्धोष्णं कफवातजित् ॥ १४४ ॥ तिन्दुकं कफपित्तघ्नं कषायमधुरं लघु । विद्यादामलके सर्वान् रसाँल्लवणवर्जितान् ॥ १४५ ॥ स्वेद-मेदः-कफोत्क्लेद-पित्तरोग-विनाशनम् । रूक्षं स्वादु कषायाम्लं कफपित्तहरं परम् ॥ १४६ ॥ रसासृङ्-मांस-मेदो-जान्दोषान् हन्ति बिभीतकम् । स्वरभेद-कफोत्क्लेद-पित्तरोग-विनाशनम् । अम्लं कषायमधुरं वातघ्नं ग्राहि दीपनम् ॥ १४७ ॥ स्निग्धोष्णं दाडिमं हृद्यं कफपित्ताविरोधि च । रूक्षाम्लं दाडिमं यत्तु तत्पित्तानिलकोपनम् ॥ १४८ ॥ मधुरं पित्तनुद्दोषं तद्धि दाडिममुत्तमम् । वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्मणि शस्यते ॥ १४९ ॥ अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः । गुणैस्तैरेव संयुक्तं भेदनं त्वम्लवेतसम् ॥ १५० ॥ शू लेऽरुचौ विबन्धे च मन्देऽग्नौ मद्यविप्लवे । हिक्काकासे च श्वासे च वम्यां वर्चोगदेषु च ॥ १५१ ॥ वातश्लेष्मसमुत्थेषु सर्वेष्वेतेषु दिश्यते । केशरं मातुलुङ्गस्य लघु शीतमतोऽन्यथा ॥ १५२ ॥ गुर्वी त्वगस्य कटुका मारुतस्य च नाशिनी । रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः ॥ १५३ ॥ कर्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः । मधुरं किंचिदम्लं च हृद्यं भक्तप्ररोचनम् ॥ १५४ ॥ दुर्जरं वातशमनं नागरङ्गफलं गुरु । वातामाभिषुकाक्षोट-मकूलक-निकोचकाः ॥ १५५ ॥ गुरूष्णस्निग्धमधुराः सोष्माणो बलप्रदाः । वातघ्ना बृंहणा वृष्याः कफपित्ताभिवर्धनाः ॥ १५६ ॥ १. शतातकं, शतातकमिति च पाठौ ।

चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान) · पृष्ठ 360, कुल 639 में से · BharatKosha