दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 23, कुल 474 में से
संदर्भ में पढ़ेंप्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २३ ( ४६ ) गगनचारिण्यापि वाण्या 'सत्यमेतत्' इति तदेवावाचि । राजा- पि मुनिवाक्यमङ्गीकृत्यातिष्ठत् । ( ५० ) ततः सम्पूर्णगर्भदिवसा वसुमती सुमुहूर्ते सकललक्षणलक्षितं सुतमसूत । ब्रह्मवर्चसेन तुलितवेधसं पुरोधसं पुरस्कृत्य कृत्यविन्महीपतिः कुमारं सुकुमारं जातसंस्कारेण बालालंकारेण च विराज्मानं राजवाहन- नामानं व्यधत्त । (५१) तस्मिन्नेव काले सुमतिसुमित्रसुमन्त्रसुश्रुतानां मन्त्रिणां प्रमति- मित्रगुप्तमन्त्रगुप्तविश्रुताख्या महाभिख्याः सूनवो नवोद्यदिन्दुरुचश्चिरायुषः समजायन्त । राजवाहनो मन्त्रिपुत्रैरात्ममित्रैः सह बालकेलीरनुभवन्नवर्धत । ( ४९ ) गगनचारिण्या-अशरीरिण्या । अङ्गीकृत्य स्वीकृत्य । ( ५० ) सम्पूर्णाः परिपूर्णा गर्भदिवसाः नवदिनाधिकनवमासाः यस्याः सा । सुमुहूर्ते शुभलग्ने । सकलैरशेषैर्लक्षणैः सौभाग्यचिह्नैर्लक्षितं युक्तम् । ब्रह्मणो वर्च इति 'ब्रह्महस्तिभ्यां वर्चस' इत्यच् । तेन ब्रह्मतेजसा तुलित उपमितो वेधा ब्रह्मा येन तम् । ब्रह्मतेजसा ब्रह्मसदृशम् । पुरस्कृत्य अग्रे कृत्वा । पुरोधसं पुरोहितम् । कृत्यवित् समयोचितकार्यज्ञः । सुकुमारं सुन्दरदर्शनम् । जातसंस्कारेण जातकर्म- नाम्ना संस्कारविशेषेण । बालालंकारेण बालकोचितभूषणेन । विराज्मानं विशेषतः शोभमानम् । राजवाहन इति नाम यस्य तम् । व्यधत्त चकार । ( ५१ ) तस्मिन्नेव काले-यदा राजवाहनस्य जन्माभवत् तदैव । महती सम- धिका अभिख्या शोभा येषां ते । अभिख्या नामशोभयोरित्यमरः । महदभिख्या इति पाठान्तरन्तु चिन्त्यम् । नवो नूतनः प्रातिपदिक इति यावत्-उद्यन् उदयमानो य इन्दुश्चन्द्रस्तस्य रुचिव रुक् कान्तिर्येषां ते । चिरायुषो दीर्घजीविनः । आत्मनः स्वस्य मित्रैः सुहृद्भिः । बालकेलीः शैशवोचितक्रीडाः । ( ४९ ) इसी क्षण आकाश-वाणीने भी 'यह बात सत्य है' ऐसा कहकर मुनिकी बातका समर्थन किया । राजा भी मुनिवाक्यपर सन्तुष्ट होकर वहीं रहने लगा । ( ५० ) उसके पश्चात् गर्भके दिन पूरे होनेपर रानी वसुमतीने शुभ मुहूर्त्तमें सभी शुचि- शुभ लक्षणोंसे विभूषित पुत्रको उत्पन्न किया । तब ब्रह्मदेवके समान परम तेजस्वी पुरोहित की आज्ञानुसार उस कृत्यवेत्ता महीपालने उस सुकुमार राजकुमारका जन्मसंस्कार आदि (बालकोंके योग्य पहननेवाले अलंकारोंसे अलंकृत) यथाविधि कराकर राजवाहन नाम धरा । ( ५१ ) इसी समय सुमति, सुमन्त्र, सुमित्रा और सुश्रुत चारों अमात्योंको भी क्रमसे प्रमति मित्रगुप्त, मन्त्रगुप्त और विश्रुत नामक बड़े सुन्दर चार पुत्र नूननोदित चन्द्रकी तरह दीर्घजीवी उत्पन्न हुए। कुमार राजवाहन मन्त्रि-पुत्रोंसे बालक्रीड़ा करते हुए वृद्धि प्राप्त करते हुए रहने लगा।