भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 418, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 418

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ४१८ दशकुमारचरितम्। [ उत्तरपीठिकायां शरीरजीवितान्यपि मोचयन्ति । यदि कश्चित्पटुजातीयो नास्यै मृगतृ- ष्णिकायै हस्तगतं त्यक्तुमिच्छेत् तमन्ये परिवार्याहुः - एकामपि काकिणीं कार्षापणलक्षमापादयेम, शस्त्रादृते सर्वशत्रून्घातयेम, एकशरीरिणमपि मर्त्यं चक्रवर्तिनं विदधीमहि यद्यस्मद्दिष्टेन मार्गेणाचर्यते' इति । ( ८ ) स पुनरिमान्प्रत्याह - 'कोऽसौ मार्गः' इति । पुनरिमे ब्रुवते- 'ननु चतस्रो राजविद्यास्त्रयी वार्तान्वीक्षिकी दण्डनीतिरिति । तासु तिस्रस्त्र- यीवार्तान्वीक्षिक्यो महत्यो मन्दफलाश्च तास्तावदास्ताम् । अधीष्व ताव- दण्डनीतिम् । इयमिदानीमाचार्यविष्णुगुप्तेन मौर्यार्थे षड्भिः श्लोकसहस्रैः संक्षिप्ता । सैवेयमधीत्य सम्यगनुष्ठीयमाना यथोक्तकर्मक्षमा' इति । दीनि त्याजयन्तीति भावः । पटुजातीयः चतुरसदृशः । प्रकारवचने जातीयर् प्रत्ययः । अस्यै अनन्तरोक्तायै । मृगतृष्णिकायै मरीचिकायै । निमित्ते चतुर्थी । हस्तगतं धनमिति शेषः । तं पटुजातीयम् । अन्ये अपरे राजनीतिज्ञा इति भावः । काकिणी वराटिकानां विंशतिः । पणचतुर्थोऽश इत्यर्थः । कार्षापणः षोडश पणाः । आपादयेम उत्पाद्येम । अर्थशास्त्रबलात् एकयाऽपि काकिण्या कार्षापणलक्षमुर्जं- यितुं प्रभवति नर इति भावः । शस्त्रादृते शस्त्रं विना । कूटनीत्या विना युद्धं शत्रु- नाशो भवतीत्यर्थः । एकशरीरिणम् एकाकिनं पुरुषम् । मर्त्यानां मनुष्याणां चक्रे मण्डले समूहे वा वर्त्तते प्राधान्येन चरतीति तथा । विदधीमहि कर्तुं शक्नुयाम । अस्मदुद्दिष्टेन अस्माभिः प्रदर्शिताने । आचर्यते अनुष्ठीयते त्वयेति शेषः । ( ८ ) त्रयी वेदः । वार्ता अर्थशास्त्रम् । आन्वीक्षिकी न्यायशास्त्रम् । मन्दफलाः निष्फलप्रायाः । आसतां तिष्ठन्तु । आस् उपवेशने इत्यस्य धातोलोंटि रूपम् । इयं दण्डनीतिः । आचार्यविष्णुगुप्तेन चाणक्येन । मौर्यार्थे चन्द्रगुप्तकृते । अनुष्ठीय- माना आचर्यमाणा । यथोक्तकर्मक्षमा पूर्वप्रतिपादितकार्यकरणसमर्था । हूँ। बिना शस्त्र उठाये ही सब शत्रुगणोंको जीत सकता हूँ । केवल एक शरीर मात्रधारी निर्धनको भी चक्रवर्ती सम्राट् बना सकता हूँ। परन्तु ये सब बातें तभी होंगी जब मेरे बताये गये मार्गका वह व्यक्ति अनुसरण करे । ( ८ ) यदि उस धूर्तकी इन लम्बी-चौड़ी बातोंपर विश्वास करके कोई पूछता है कि 'अन्ततोगत्वा आपका वह कौनसा मार्ग है' तो वे कहते हैं-चार प्रकारकी राजविद्याएँ होती हैं । त्रयी ( ऋग् यजुः, साम ), वार्ता ( कृष्यादि कर्म ), आन्वीक्षिकी ( न्यायशास्त्र ) और दण्डनीति (अर्थशास्त्र ) । इनमें भी तीन विद्याएँ तो अति परिश्रम से प्राप्त होती हैं परन्तु उनका फल अतिसाधारण है । अतः उनके जानने की आवश्यकता नहीं Nepal Sanskrit University, Balmeeki Campus, Kathmandu