गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 125, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे पूर्वभागे प्रं० २ । क० ७ ॥ ८७ उस दिन जल बरसाने वाला मेघ हो जावे । ( ते देवाः अब्रुवन् अयम् ब्राह्मणः वै ब्रह्मचर्य्यं चरिष्यति, अस्मै भिक्षाः ब्रूत इति ) • देवता [ विद्वान् ब्रह्म से ] बोले-यह ब्राह्मण ब्रह्मचर्य्य करेगा, इसको भिक्षायें [ भिक्षा विधान ] बताओ । ( ब्रूत गृहपतिः बहुचारी इति, अस्याः अददत्याः गृहपत्नयाः किम् वृञ्जीत इति ) [ ब्रह्म बोला ]- कहो-गृहपति बहुत कर्म करने वाला है । [ वह भिक्षा देगा ] . [ देवता बोले ]-इस न देने वाली गृहपत्नी का क्या नष्ट होवे । ( इष्टापूर्तं सुकृतद्रविणम् अवरुन्ध्यात् इति ) [ ब्रह्म बोला ] इष्टापूर्त्त [ यज्ञ, वेदाध्ययन, तथा अन्नदानादि ], पुण्य कर्म और धन [ उसका ] नष्ट हो जावे, (तस्मात् ब्रह्मचारिणे अहरहः भिक्षां दद्यात् इयं गृहिणी मा मा इष्टापूर्तंसुकृतद्रविणम् अवरुन्ध्यात् इति ) इसलिये ब्रह्मचारी को वह दिन दिन भिक्षा देवे, और यह गृहपत्नी इष्टापूर्त्त [यज्ञ, वेदाध्ययन, तथा अन्नदानादि], पुण्यकर्म और धन कभी भी नष्ट न करे । ( सप्तमीं न अतिनयेत्, सप्तमीम् अतिनयन् ब्रह्मचारी न भवति ) सप्तमी [ रात्रि ] को न त्यागे, सप्तमी को त्यागता हुआ ब्रह्मचारी नहीं होता है, (समिद्भैक्षे सप्तरात्रम् अचरितवान् ब्रह्मचारी पुनः उपनेयः भवति ) समिधा और भिक्षा को सात रात्रि न करने वाला ब्रह्मचारी फिर उपनयन योग्य होता है ॥ ६ ॥ भावार्थः-ब्रह्मचारी कष्ट उठाकर ब्रह्मचर्य का पालन करे और गृहपति उसको भिक्षा दान करता रहे, उससे वे दोनों दीर्घजीवी और पुण्यात्मा होवें ॥ ६ ॥ कण्डिका ७ ॥ नोपरिशायी स्यान्न गायनो न नर्त्तनो न सरणो न निष्ठीवेत् यदुपरि- शायी भवत्यभीक्ष्णं निवासा जायन्ते, यद् गायनो भवत्यभीक्ष्णश आक्रन्दान्धावन्ते, यन्नर्त्तनो भवत्यभीक्ष्णशः प्रेताग्निनिर्हरन्ते, यत्सरणो भवत्यभीक्ष्णशः प्रजाः संविशन्ते, यन्निष्ठीवति मध्य एव तदात्मनो निष्ठीवति, स चेन्निष्ठीवेद्दिवो नु मां यदन्नापि मघोरहं यदन्नापि रसस्य म इत्यात्मानमनुमन्त्रयते । यदन्नापि मघोरहं निरिष्ट- विषमस्मृतम् । अग्निश्च तत्सविता च पुनर्मे जठरे धत्ताम् । यदन्नापि रसस्य मे परापपातास्म तम् । तदिहोपह्वयामहे तन्म आप्यायतां पुनरिति । न श्मशान- मातिष्ठेत्, स चेदभितिष्ठेदुदकं हस्ते कृत्वा यदीदमृतुकाम्येत्यभिमन्त्र्य जपन् सम्प्रोक्ष्य परिक्रामेत् समयायोपरि व्रजेत् यदीदमृतुकाम्याघं रिप्रमुपेयिम अन्धः क्तः मूडागमश्च + वृषु सेचने-णिनिः । जीमूतस्य मेघजलस्य वर्षकः ( पर्ज्जन्यः ) पर्जन्यः ( उ० ३ । १०३) पृषु सेचने-अन्यप्रत्ययः, षस्य जः निपातनात् । सेचकः । मेघः ( ब्रूत ) आदराय बहुवचनम् । ब्रूहि । कथय ( बहुचारी ) बहुकर्मा ( वृञ्जीत ) वृजो वृजि वर्जने-विधिलिङ् । वर्जयेत् ( अददत्याः ) ददातेः-शतृः । दानम् अकुर्वंत्याः ( इष्टापूर्तम् ) यज देवपूजासंगतिकरणदानेषु, इषु वाञ्छायाम् वा-क्तः, पूर्वपददीर्घः । यज्ञवेदाध्ययनान्नप्रदानादि पुण्यकर्म (द्रविणम्) धनम् ( अवरुन्ध्यात् ) नश्येत् ( उपनेयः ) उप + णीञ् प्रापणे-यत् । उपनयनयोग्यः ॥