गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 196, कुल 600 में से
संदर्भ में पढ़ें१५८ गोपथब्राह्मणे पूर्वभागे प्र० ३ । क० १३ ॥ ( यत् रात्रौ स्रुग्दण्डम् अवामार्क्षं ये रात्रौ संविशन्ति तान् दक्षिणान् उदनैषम् ३९ ) जो रात्रि में स्रुचा के दण्डे को मैंने धोया है, जो रात्रि में सोते हैं उन चतुर लोगों को मैंने उठाया है ३६, ( यत् प्रातः उदमार्क्षम्, ये प्रातः प्रव्रजन्ति तान् दक्षिणान् उदनैषम् ४० इति ब्राह्मणम् ) जो प्रातःकाल [ स्रुचा के दण्डे को ] मैंने धोया है, जो प्रातःकाल चलते फिरते हैं उन चतुर लोगों को मैंने उठाया है ४०, यह ब्राह्मण [ ब्रह्मज्ञान ] है १२ ॥ भावार्थः-दूध घी आदि पदार्थों का उपयोग विचारपूर्वक करना चाहिये ॥ १२ ॥ कण्डिका १३ ॥ एवमेवैतद्भो यथा भवानाह पृच्छामि त्वेव भवन्तमिति, पृच्छ प्राचीन- योग्येति । यस्य सायमनय उपसमाहिताः स्युः सर्वे ज्वलयेयुः प्रक्षालितानि यज्ञ- पात्राण्युपसन्नानि स्युरथ चेद् दक्षिणाग्निरुद्वायात् किं वा ततो भयमागच्छे दिति, क्षिप्रमस्य पत्नी प्रैति, यो विद्वान् जुहोति विद्यया त्वेवाहमभिजुहोमीति, का ते विद्या का प्रायश्चित्तिरिति १, गार्हपत्यादधि दक्षिणाग्निं प्रणीय प्राचोऽङ्गारानु- द्धृत्य प्राणापानाभ्यां स्वाहेति जुहुयादथ प्रातर्यथास्थानमग्नीनुपसमाधाय यथा- पुरं जुहुयात्सा मे विद्या सा प्रायश्चित्तिरिति २, अथ चेदाहवनीय उद्वायात् किं वा ततो भयमागच्छेदिति क्षिप्रमस्य पुत्रः प्रैति, यो विद्वाञ्जुहोति विद्यया त्वेवा- हमभिजुहोमीति, का ते विद्या का प्रायश्चित्तिरिति २, गार्हपत्यादध्याहवनीयं प्रणीय प्रतीचोऽङ्गारानुद्धृत्य समानव्यानाभ्यां स्वाहेति जुहुयादथ प्रातर्यथास्थाने- मग्नीनुपसमाधाय यथापुरञ्जुहुयात् सा मे विद्या सा प्रायश्चित्तिरिति २ । अथ चेद्गार्हपत्य उद्वायात् किं वा ततो भयमागच्छेदिति क्षिप्रं गृहपतिः प्रैति, यो विद्वाञ्जुहोति विद्यया त्वेवाहमभिजुहोमि इति का ते विद्या का प्रायश्चित्तिरति ३, सभ्यमकमाहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य ततः आहवनीयं प्रणीय उदीचोऽङ्गारानुद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयादथ प्रातर्यथास्थानमग्नीनुपसमाधाय यथापुरं जुहुयात् सा मे विद्या सा प्रायश्चित्ति- रिति ३, अथ चेत्सर्वेऽग्नय उद्वायेयुः किं वा ततो भयमागच्छेदिति. क्षिप्रं गृहपतिः सर्वंज्यानिज्रीयते, यो विद्वां जुहोति विद्यया त्वेवाहमभिजुहोमीति, का ते विद्या का प्रायश्चित्तिरिति ४, आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यमुप- साद्याग्निं निर्मन्थ्य प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहा उदानरूपाभ्यां स्वाहेति जुहुयादथ प्रातर्यथास्थानमग्नीनुपसमाधाय यथापुरञ्जुहुयात् सा मे विद्या सा प्रायश्चित्तिरिति ४, अथ चेन्न श्नि जनयितुं शक्नुयुनं कुतश्चन वातो वायत् किं वा ततो भयमागच्छेदिति मोघमस्येष्टं च हुतञ्च भवति, यो विद्वां जुहोति विद्यया त्वेवाहमभिजुहोमीति, का ते विद्या का प्रायश्चित्तिरित्यानडुहेनैव शकृत्पिण्डे- रसनाघ्राणमनोबुद्धीः ( संविशन्ति ) शेरते ( दक्षिणान् ) कुशलान् ( प्रव्रजन्ति ) प्रकर्षेण गच्छन्ति ॥